________________
पलिकासमेतः।
२०५ इह गवि शृङ्ग पटे तन्तव इति । नाप्यध्यक्षचेतसि तन्त्वादिसमवेतं तव्यतिरेकि बमादिरूपमाभासते । नच बिवेकेनाप्रतिभासिते सतीदमिह वर्तत इति धीर्मवेत् । नहि कुण्डादौ विवेकिनामप्रतिभासमाने पयसि भवति सलिलमिहेति प्रत्ययः।।६१९॥ * यचोकं 'नच कास्न्यैकदेशाभ्यां वृत्तिः कचन लक्षितेति तत्राह-कृत्लौकदेशशब्दाभ्यामित्यादि।
कृत्लैकदेशशब्दाभ्यामयं चार्थः प्रकाश्यते । नैरंश्येनास्य किं वृत्तिः किं वा तस्यान्यथैव सा ॥ ६२० ॥ यथा पात्रादिसंस्थस्य श्रीफलादेर्यथाऽथवा ।
अनेकासनसंस्थस्य चैत्रादेरुपलक्षिता ॥ ६२१ ॥ कृत्वाशब्देन हि यादृशं स्वरूपमनंशं किं तथैव नैरंश्येन सर्वावयवेषु तस्य वृत्तियथा कचिद्भाजनावस्थितस्य श्रीफलादेरुपलक्षितेत्ययमर्थः प्रकाश्यते, आहोखिदन्यथा यथाऽनेकपीठाधिशयितस्य चैत्रादेरुपलक्षितेत्ययमेकदेशशब्देन प्रकाश्यत इति । यत्किंचिदेतत् । यदप्युद्योतकारेणोक्तम्-एकस्मिन्नवयविनि कृत्लैकदेशशब्दप्रवृत्त्यसंभवादयुक्तोऽयं प्रश्नः किमेकदेशेन वर्तेताथ कृत्लो वर्तत इति । कृत्समिति खल्वशेषाभिधानम् , एकदेश इति चानेकत्वे सति कस्यचिदभिधानम् , ताविमौ कृ. लैकदेशशब्दावेकस्मिन्नवयविन्यनुपपन्नाविति तदप्यनेनैव प्रत्युक्तम् । तथाच लोके कृतः पदः कुण्डे वर्तते एकदेशेन वेत्येवं पदादिषु कृत्स्नैकदेशशब्दप्रवृत्तिदृश्यत एव । नचेयमुपचरितेति युक्तम् , अस्खलद्गतित्वादिति प्रागभिहितमेतत् ।। ६२० ॥ ॥ ६२१ ॥
एवं वायुपर्यन्तं चतुर्विधं द्रव्यमपास्तम् । आत्माख्यं तु प्रागेवात्मपरीक्षायां निरस्तम् । इदानीमाकाशकालदिङानसां प्रतिषेधार्थमाह-समाश्रिता इत्यादि ।
समाश्रिताः कचिच्छब्दा विनाशित्वादिहेतुतः। है घटदीपादिवत्तच किल व्योम भविष्यति ॥ ६२२॥ ___ तत्राकाशाख्यं तावद्रव्यं परेण साध्यते-अस्त्याकाशाख्यं द्रव्यं नित्यमेकं भुवि शब्दलितं, शब्दोऽस्य गुणत्वालिङ्गम् । प्रयोगः-ये ये विनाशित्वोत्पत्तिमत्त्वादिधपितास्ते कचिदाश्रिताः, यथा घटदीपादयः, तथाचामी शब्दाः, तस्मात्कचिदाश्रितैरेमिभवितव्यम् , योऽसावाश्रयोऽमीषां स सामर्थ्याव्योम-आकाशं भविष्यति ।