________________
२.४
तत्त्वसङ्ग्रहः । दृष्टौ वा कचिदेतस्या द्रव्यादावनिवारणम् । अथ तस्मिन्नदृष्टौ तु भेदे प्रभो न युज्यते ॥ ६१६ ॥ एतावतु भवेद्वाच्यं वृत्तिनास्तीति तच न । युक्तं प्रत्यक्षतः सिद्धेरिहेदमिति बुद्धितः॥ ६१७ ॥ प्रत्यक्षं न तदिष्टं चेद्वाधकं किश्चिदुच्यताम् ।
रूपादिचेतसोऽपि स्यान्नैव प्रत्यक्षताऽन्यथा ॥ ६१८ ॥ स याह-खातव्येण प्रसङ्गमुखेन वा यत्साधनं क्रियते तत्स्वयमुपलब्धौ सत्यां संगच्छते, अन्यथा ह्यसिद्धता दोषः स्यात् , नच भवता कचिदप्येकस्यानेकस्मिन्कात्यैकदेशाभ्यां वृत्तिरुपलब्धा, यस्या वृत्तेरसंभवादवयविद्रव्यमसत्स्यात् । सति संभवेऽपरोऽपि वा भवेदवयवोऽवयवी चेति । अथ कचिदेवंभूता वृत्तिरुपलक्षिता भवेतदा तद्वदेव द्रव्यादावपि सा भविष्यतीत्यप्रतिषेधः । अथ न दृष्टा सा वृत्तिस्तदा किमेकदेशेनाहोस्तित्सर्वात्मनेत्येवं भेदप्रश्नो न युज्यते, सिद्धे हि धर्मिणि विशेषप्रतिषेधो युक्तः । यदा तु धर्येवासिद्धस्तदा तस्यैव प्रतिषेधो ज्यायान् , तेनैतावदेव वक्तव्यं वृत्तिरेव नास्तीति, नतु विशेषप्रतिषेधः, तञ्च न युक्तं प्रत्यक्षत एवावयवे. ध्वयवयविनो वृत्तिसिद्धेः । किंभूतात्प्रत्यक्षादित्याह-इहेदमिति बुद्धित इति । इह तन्तुष्विदं वस्त्रादीत्येवंभूतात्प्रत्यक्षादित्यर्थः । अथापि स्यात्-प्रत्यक्षत्वमस्या बुद्धरसिद्धमिति । यद्येवं किंचिदत्र बाधकं प्रमाणं वक्तव्यम् । यतोऽप्रत्यक्षता स्यात् । अथासत्यपि बाधके प्रमाणे प्रत्यक्षत्वमस्या न भवेदेवं तर्हि रूपादिविज्ञानस्यापि भवदीयस्स प्रत्यक्षत्वं न भवेद्विशेषाभावात् ॥ ६१४ ॥ ६१५ ॥ ६१६ ॥ ॥ ६१७ ॥ ६१८ ॥ तदत्रेत्यादिना प्रतिविधत्ते ।
तदन वृत्तिनास्तीति प्रागभेदेन साधितम् ।
इहेत्यस्ति नच ज्ञानं तद्रूपाप्रतिभासनात् ॥ ६१९ ॥ तखेकवृत्तिभाजैवेत्यादिना प्राक् सामान्येनैवानेकस्मिन्नेकस्य वृत्तिरपास्ता । योदमुच्यते प्रत्यक्षत एव वृत्तिः सिद्धा 'इहेदमिति बुद्धित' इति, तदप्यलौकिकम् । नहीह शृङ्गे गौरिह तन्तुषु पट इत्येव लोके विकल्पिकाऽपि धीः प्रवर्तते । किं तर्हि ?