________________
पलिकासमेतः।
२०३ समवायात्मिका वृत्तिस्तस्य तेविति चेन्ननु ।
तस्यामपि विचारोऽयं कोपेनैव प्रधावति ॥ ६१२॥ तस्यामप्येवरूपायां वृत्तावयमनन्तरोदितः किमेकावयवसमवेतेनैव स्वभावेनावयवान्तरेषु वर्तते, अथान्येनेति विचारः कुमतिरचितदोषजालमसहमानकोपादिवामिधावति ॥ ६१२ ॥
एवं तावत्कृत्स्नैकदेशविकल्पमकृत्वा वृत्तिरपास्ता । संप्रत्युपादाय प्रज्ञप्तिविहितेन प्रकारेण वृत्तिनिषेधमाह-यद्वेत्यादि ।
यद्वा सर्वात्मना वृत्तावनेकत्वं प्रसज्यते ।
एकदेशेन चानिष्टा नैको वा न कचिच्च सः ॥ ६१३ ॥ कदाचित्तद्रव्यं प्रत्येकमवयवेषु सर्वात्मना वर्त्तते, एकदेशेन वा । यदि सर्वात्मना तदा यावन्तोऽवयवास्तावन्तस्तस्यात्मानः प्राप्नुवन्ति, नहि प्रत्यवयवं तस्य स्वभावामेदेऽसति सर्वात्मना वृत्तिरस्ति । असंविद्यमानेनात्मना वृत्त्यसंभवात् । ततश्च सर्वामना वृत्तेर्युगपदनेककुण्डादिव्यवस्थितकुवलयादिवदनेकत्वमवयविनः प्राप्नोति । अथैकदेशेनेति पक्षस्तदाऽनवस्था स्यादेकदेशानाम् । तथाहि यैरेकदेशैस्तद्रव्यमवयवेषु वर्त्तते तेऽपि तस्यैकदेशा इति, तेष्वप्यनेन वर्तितव्यम् , तथैवापरेष्वित्यनिष्ठा । अ. थापि स्याद्यैरसावेकदेशैरवयवेषु वर्त्तते । ते तस्य स्वात्मभूता एव नार्थान्तरभूतास्तव्यतिरेकेण चापरेषामेकदेशानामभावादतो नानिष्ठा भविष्यतीत्याशङ्कयाह-नैको वेति । एवं हि सत्येकोऽवयवी न स्यादवयवप्रचयमात्ररूपत्वात्तस्य । तथाच सति दृष्टपाण्यादिसमुदायमात्रात्मक एवास्तां वस्तु, किमपरैस्तस्य स्वात्मभूतैरवयवैः परिकल्पितैः । दोषान्तरमप्याह-न क्वचिच्च स इति । वृत्तः स्यादिति शेषः । एतदुक्तं भवति । यद्येकदेशाः प्रत्येकावयविनः स्युस्तदाऽवयवे ह्यवयवी वृत्तः स्यात् । यावता नैकदेशाः प्रत्येकमवयविनः, तेषामेकदेशत्वहानिप्रसङ्गात् । नचापरोऽवयवी खरूपेणास्ति । तत्कथमवयवेष्वसौ वृत्तो नाम ॥ ६१३ ॥ स्वातन्त्र्येणेत्यादिना शङ्करस्वामिनः परिहारमाशङ्कते
खातब्येण प्रसङ्गेन साधनं यत्प्रवर्तते । खयं तदुपलब्धौ हि सत्यं सङ्गच्छते न तु ॥ ६१४॥ नच कात्स्न्यैकदेशाभ्यां वृत्तिः कचन लक्षिता। यस्या असंभवाद्रव्यमसत्स्यादपरोऽपि च ॥ ६१५ ॥