________________
२०१
तत्त्वसङ्ग्रहः।
तत्र तेनैव नान्यत्र वृत्तिरस्यावकल्पते ।
तेन क्रोडीकृतत्वेन नान्यथा तत्र वृत्तिमत् ॥ ६०८॥ तदेकं द्रव्यमेकावयवक्रोडीकृतं यत्तस्य रूपं तेनैवावयवान्तरेषु वर्तते, यद्वाऽन्ये. नेति पक्षद्वयं, नहि वस्तुतस्तत्त्वान्यत्वाभ्यामन्यत्प्रकारान्तरमस्ति । तत्र न तावदायः । पक्षस्तेनैवावयवेन तस्य क्रोडीकृतत्वात्कुतोऽवयवान्तरे वर्तितुमस्यावसरस्तदानीमेव स्यात् । अन्यथा हि यद्यन्यत्रापि वर्तेत, तदाऽत्रामिमते द्रव्ये तस्य वृत्तिः सर्वास्मना न भवेत् । नहि तस्यापरः स्वभावोऽस्ति, येनान्यत्रापि वर्तेत, एकत्वहानिप्रसङ्गात् ॥ ६०७ ॥ ६०८॥ प्रमाणं रचयन्नाह नैवेत्यादि।
नैव धात्र्यन्तरकोडमध्यास्ते हि यथा शिशुः।
एकक्रोडीकृतं द्रव्यं नाश्रयेत तथाऽपरम् ॥ ६०९॥ प्रयोगः-यदेकवस्तुक्रोडीकृतं वस्तु न तत्तदानीमेवान्यत्र वर्त्तते । यथैकधात्रीकोडीकृतः शिशुन धात्र्यन्तरकोडमध्यास्ते एकावयवक्रोडीकृतं च द्रव्यमिति व्याप. कविरुद्धोपलब्धिः । द्रव्यं नाश्रयेत तथापरमिति प्रमाणफलकथनम् ॥ ६०९॥ साध्यविपर्ययेऽस्य बाधकं प्रमाणमाह-तत्संबद्धस्वभावस्येति ।
तत्संबद्धखभावस्य यतद्देशेऽपि वृत्तितः। प्राप्तं तदेकदेशत्वमैकात्म्यं चाविभागतः॥ ६१०॥ अन्येनैवात्मना वृत्तौ नैकोऽनेकव्यवस्थितः।
सिद्धयेत्खभावभेदस्य वस्तुभेदात्मकत्वतः ॥ ६११॥ अमिमतावयवसंबद्धस्वभावस्य हि द्रव्यस्यातद्देशेऽप्यवयवान्तरे यदि वृचिः स्याचदा तेषामवयवानामेकदेशता स्यात् , ततश्चैकात्म्यमेकखभावताऽवयवानां प्राप्ता । कस्मात् ? अविभागत:-अविभक्तरूपतयाऽवस्थितत्वात् । अन्यथा हि विभक्तरूपावस्थितौ सत्यां नैकदेशत्वं भवेत् , अथान्येन स्वभावेनेति द्वितीयः पक्षस्तदैकोऽनेकव्यवस्थित इति न सिद्ध्येत् , स्वभावान्तरस्यान्यत्र वृत्तेः स्वभावभेदात्मकत्वाच वस्तुमेदस ॥ ६१० ॥ ६११ ॥
उद्योतकरस्त्वाह-आश्रयाश्रितधर्मनिर्देशमात्रमेतत् , अवयव्यवयवेषु प्रवर्चत इति, आश्रितमावलक्षणा हि समवायरूपा प्राप्तिरुच्यत इति तत्राह-समवायात्मिके. त्यादि।