________________
२०१
पलिकासमेतः। विषयो युक्तः । अनेकरूपोऽपि भवनसामर्थ्यादणुसंचयात्मक एवावमिद्यते । संभवदवयवस्सैकत्वायोगात् । अतः सिद्धा घटादीनामणुरूपता तेन नीलादि परमाणूनामाकार इति सिद्धम् । अन्यस्यैकरूपस्य विषयस्यासम्भवात् ॥ ६०१ ॥ ६०२॥ * यथोक्तं "न चाणु वचनं भवे"दिति तत्राह-अविज्ञातार्थतत्त्व इत्यादि ।
अविज्ञातार्थतत्त्वस्तु पिण्डमेकं च मन्यते ।
लोकस्तत्कल्पितापेक्षः परमाणुरिहोच्यते ॥ ६०३ ॥ तत्कल्पितापेक्ष इति । तस्मिन्कल्पिते सूत्रे अपेक्षा यस्येति विग्रहः ॥ ६०३ ॥ परिहारान्तरमाह-निमित्तेत्यादि ।
निमित्तनिरपेक्षा वा संज्ञेयं तादृशि स्थिता।
सङ्केतान्वयिनी यद्वनिर्वित्तेऽपीश्वरश्रुतिः ॥ ६०४ ॥ तादृशीति । अनंशेऽप्रतिघे । यथा दरिद्रेऽपीश्वरश्रुतिः सङ्केतवशादैश्वर्याख्यं निमित्तमन्तरेणैव प्रवर्तते, तद्वदियमप्यणुश्रुतिरित्यदोषः ॥ ६०४ ॥
एवं तावत्सामान्येनैवावयवैरारब्धमनारब्धं वा स्थूलमेकं द्रव्यं न युज्यत इति प्रतिपादितम् । इदानीं येनावयवी प्रारब्ध इष्यते, तस्य विशेषेण दूषणमाह-एकेत्यादि ।
एकावयव्यनुगता नैव तन्तुकरादयः। अनेकत्वाद्यथासिद्धाः कटकुव्यकुटादयः ॥ ६०५ ॥ यदि वाभिमतं द्रव्यं नानेकावयवाश्रितम् ।
एकत्वादणुववृत्तरयुक्तिर्वाधिका प्रमा॥ ६०६ ॥ प्रयोगः-यदनेकं न तदेकद्रव्यानुगतम् , यथा कटकुट्यादयो बहवो नैकद्रव्यानुगताः, अनेके चामी तन्तुकरादय इति व्यापकविरुद्धोपलब्धेः । अथवा-यदेकं तदेकद्रव्याश्रितं यथैकः परमाणुः एकं चावयविसंशितं द्रव्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । प्रसङ्गसाधनं चैतत् । प्रयोगद्वयेऽपि विपर्यये बाधकं प्रमाणमाह" वृत्तेरयुकि|धिका प्रमेति । अवयवेषु याऽवयविनो वृत्तिस्तस्या अयोगः प्रमाणैरघटनं तदत्र बाधकं प्रमाणम् ॥ ६०५ ॥ ६०६ ॥ कथं पुनरयोग इत्याह-तद्धीत्यादि।
तद्धयेकवृत्तिभाजैव रूपेणावयवान्तरे। वर्तेत यदि वाऽन्येन न प्रकारान्तरं यतः ॥ ६०७॥