________________
२००
तत्त्वसङ्ग्रहः ।
बहुदेशस्थितिस्तेन नैवैकस्मिन्कृतास्पदा ।
ततः सिद्धा पटादीनामणुभ्योऽनेकरूपता ॥ ६०२॥ __ यदि हि पटादिरेकमेव द्रव्यं, तदा किं तत्र निरंशके द्रव्ये कषायादिमिरव्याप्तं, येनाव्याप्यवृत्तिः संयोगः स्यात् । अथाव्याप्तस्वरूपस्यावस्थानमङ्गीक्रियते तदा तदवस्थाने भेदोऽतएव सिद्धः, व्याप्ताव्याप्तयोर्विरोधेनैकस्वभावत्वायोगात् । नचैकस्य पृथुतरदेशावस्थानं युक्तमनंशत्वात् । अन्यथा हि सर्वेषामेवोदकजन्तुहस्त्यादीनामेकत्वेनाविशेषास्थूलसूक्ष्मादिभेदो न प्राप्नोति । अल्पबहुतरावयवारम्भानारम्भादिकृतो विशेष इति चेत्, अवयवा एव तबल्पबहुतरास्तथातथोत्पद्यमानाः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं सन्तु, किं तदारब्धेनावयविना, तस्यादृष्टसामर्थ्यात् । नच सत्यप्यवयवाल्पबहुत्वेऽवयविनां निरंशतया परस्परं कश्चिद्विशेषोऽस्ति, येन स्थूलसूक्ष्मा. दिभेदो भवेत् , तेषामवयवाल्पबहुत्वग्रहणकृते विशेषेऽवयवमात्रमेवाभ्युपगतं स्यात्तत्रैव स्थूलादिव्यवहाराततश्चाणुमात्रमेव दृश्यत्वेनाभ्युपेतं स्यात् । स्थूलसूक्ष्मा(क्ष्म?) व्यतिरेकेणान्यस्य(स्या ?) दृश्यमानत्वात् । अपि चाव्याप्यवृत्तिः संयोग इति कोऽर्थः ? यदि सर्व द्रव्यं न व्याप्नोतीत्यर्थः, तद्युक्तम् । द्रव्यस्य सर्वशब्दाविषयत्वाभ्युपगमात् । अथाश्रयस्यैकदेशे वर्त्तत इति तदप्ययुक्तं तस्यैकदेशासम्भवात् । तदारम्भकेऽवयवे वर्त्तत इति चेन् , यद्येवमवयवानामेव रक्तत्वादवयविरूपमरक्तमिति रक्तारक्तं समं दृश्येत । किंच योऽप्यसौ तदारम्भकोऽवयवः स यद्यवयविरूपस्तदा तत्राप्येकदेशवृत्तित्वं संयोगस्येति तुल्यः पर्यनुयोगः । अथाणुरूपस्तदाऽतीन्द्रियत्वादणूनां तदाश्रितोऽपि संयोगोऽतीन्द्रिय एवेति रक्तोपलम्भो न स्यात् । स्यान्मतं यथा व्याप्तिरङ्गुलिरूपस्याश्रयोपलब्धावेवोपलब्धिरुच्यते नैवं संयोगस्याश्रयोपलब्धावेवोपलब्धिरिति ततोऽसावव्याप्यवृत्तिरुच्यत इति । तदेतदसम्यक् । न हि संयोगस्याश्र. यानुपलब्धावुपलब्धिरस्ति । यथा घटपिशाचसंयोगस्य, ततश्च रागस्याप्यदृष्टाश्रयस्यानुपलब्धेराश्रयोपलब्धावेवोपलब्धिरिति सोऽप्येवं व्याप्यवृत्तिर्भवेत् । स्यादेतत्अवयवान्तरेष्वरक्तेषु समवेतस्य द्रव्यस्योपलब्धावपि न संयोगात्मकस्य रागस्योपलब्धिस्तेन नास्याश्रयोपलब्धावुपलब्धिरिति तदप्ययुक्तम् । एवं हि रक्तारक्तसमवेतस्यावयविन एकत्वाद्रक्तेऽप्यवयवे रागस्य तद्वारेणानुपलब्धिप्रसङ्गः, आश्रयोपलम्भेऽपि तस्यानुपलम्मात् । न चाश्रयोपलम्मादन्यसंयोगमहणाभ्युपायोऽस्ति । तस्मात्रैकरूपो