________________
पञ्जिकासमनः ।
१९९ तत्र च लोके सबैकदेशशब्दयोः प्रवृत्तिः प्रसिद्धैव । तथाच वक्तारो भवन्ति सर्व वासो रक्तमित्यादेः । तथाविधायां च विवक्षायां येयं लोके पृथुतरदेशावक्रान्तिव्यवस्थितशाटकादिपदार्थगतरक्तादिप्रतिपादनेच्छा, तस्यां सत्यामस्माभिरपि प्रतीतिमनुसृत्य भवतो विरोधप्रतिपादनाय सर्वादिशब्दप्रयोगः क्रियते । अपि च-भवत एवायं स्थूलस्यैकत्वमभ्युपगच्छतो दोषो नास्माकम् , नास्माभिः स्थूलस्यैकत्वमिष्यते, स्यादेतन्ममाप्यदोष एव यस्माद्भाक्तमुपचरितमेतत्तन्त्वादिष्ववयवेषु तत्कारणतया पटाद्यभिधानम् , तेन सर्वादिशब्दप्रयोगो भविष्यतीति ॥५९६ ॥ ५९७ ॥ ५९८॥
भाक्तं तदभिधानं चेद्वचोभेदः प्रसज्यते।
नच बुद्धर्विभेदोऽस्ति गौणमुख्यतयेष्टयोः॥५९९॥ यद्येवं वचोभेदः-बहुवचनं, सर्वदैव प्रसज्यते सर्वाणि वासांसि रक्तानीति । न च भवन्तो बहुष्वेकवचनमिच्छन्ति । अथापि स्यादवयविगतां संख्यामादायावयवेषु वनादिशब्दोऽपरित्यक्तात्माभिधेयगतलिङ्गसंख्य एव वर्तत इति । तदप्ययुक्तमिति दर्शयन्नाह-नचेत्यादि । यदि हि भाक्तोऽयं व्यपदेशः स्यात्तदा गौणमुख्यार्थविषयाया बुद्धेविभेदो वैलक्षण्यं स्खलद्गतित्वेन प्राप्नोति, नच भेदोऽस्ति । तथाहि सर्व वासो रक्तमित्यत्र नैवं बुद्धिः प्रवर्त्तते "न च वस्त्रं रक्तं किंतु तत्कारणभूतास्तन्तवो रक्ता” इति । चकारान्न च सर्वशब्दवाच्यं वासो युष्माभिरिप्यते तस्यैकत्वात् , तत्कथं तत्संख्यामादाय सर्वशब्दो वस्त्रादिशब्दरहितोऽवयवेषु वर्त्तते । अथवा बुद्धेदो नानात्वं सोऽस्मिन् गौणमुख्यत्वेनेष्टयोर्न विद्यते । नहि तन्तुवस्त्रयोभिन्न रूपं समुपलभ्यते रूपरसादिवत् , नचानुपलब्धभिन्नरूपयोर्गौणमुख्यभावः संभवति ॥ ५९९ ॥ ननु चेत्यादिना-शङ्करस्वामिनः परिहारमाशङ्कते ।
ननु चाव्याप्यवृत्तित्वात्संयोगस्य न रक्तता।
सर्वस्यासज्यते नापि सर्वमावृतमीक्ष्यते ॥ ६०० ॥ स ह्याह-राग उच्यते वाससः कषायकुङ्कुमादिद्रव्येण संयोगः । संयोगश्चाव्याप्यवृत्तिस्ततो न रक्त एकस्मिन्सर्वस्य रागो भवति । नच वस्त्रादिमिः शरीरैकदेशस्यावरणे सर्वस्यावरणमिति ॥ ६०० ॥ तदेतदयुक्तमित्यादर्शयति-ननु चानंशक इत्यादि ।
ननु चानंशके द्रव्ये किमव्याप्तं व्यवस्थितम् । खरूपं तदवस्थाने भेदः सिद्धोऽतएव वा ॥ ६०१ ॥