________________
तत्त्वसाहः। · कोऽसौ विरोध इत्याह-स्थूलस्यैकस्वभावत्व इत्यादि ।
स्थूलस्यैकखभावत्वे मक्षिकापदमात्रतः। पिधाने पिहितं सर्वमासज्येताविभागतः ॥ ५९३ ॥ रक्ते च भाग एकस्मिन्सर्वं रज्येत रक्तवत् ।
विरुद्धधर्मभावे वा नानात्वमनुषज्यते ॥ ५९४ ॥ यदि हि स्थूलमेकं स्यात्तदैकदेशपिधाने सर्वस्य पिधानम् , एकदेशरागे च सर्वस्य रागः प्रसज्येत, पिहितापिहितयो रक्तारक्तयोश्च भवन्मतेनाभेदात् । नचैकस्य परस्परविरुद्धधर्माध्यासो युक्तः, अतिप्रसङ्गात् । एवं हि विश्वमेकं द्रव्यं स्यात् , ततश्च सहोत्पादादिप्रसङ्गः । नचैकदेशपिधाने सर्व पिहितमीक्ष्यत इति प्रत्यक्षविरोधः । तथानुमानविरोधोऽपि । तथाहि-यत्परस्परविरुद्धधर्माध्यासितं न तदेकं भवति, यथा गोमहिषम् , उपलभ्यमानानुपलभ्यमानरूपं पिहितादिरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः । सर्वस्यैकत्वप्रसङ्गो बाधकं प्रमाणम् ॥ ५९३ ॥ ५९४ ॥ ___ उद्योतकरस्त्वाह-एकस्मिन्भेदाभावात्सर्वशब्दप्रयोगानुपपत्तिरिति । तदेतन्ननु चेयादिना शङ्कते।
ननु चैकखभावत्वात्सर्वशब्दोऽत्र किंकृतः।
स ह्यनेकार्थविषयो नानात्मावयवी न च ॥ ५९५ ॥ तथाहि सर्वशब्दोऽनेकार्थविषयः, न चावयवी नानात्मेति, तत्कथं सर्वशब्दप्रयोगो येनोच्यते सर्व पिहितमासज्यत इति ॥ ५९५ ॥ नन्वित्यादिना प्रतिविधत्ते।
ननु ये लोकतः सिद्धा वासोदेहनगादयः। त एवावयवित्वेन भवद्भिपवर्णिताः ॥ ५९६ ॥ रक्तं वासोऽखिलं सर्व निःशेषं निखिलं तथा। तत्रेच्छामात्रसंभूतमिति सर्वे प्रयुञ्जते ॥ ५९७ ॥ तथाविधविवक्षायामस्माभिरपि वर्ण्यते।
सर्व स्याद्रक्तमित्यादि निर्निबन्धा हि वाचकाः॥५९८ ॥ य एव हि लोके वासोदेहप्रभृतयः प्रसिद्धास्त एव भवद्भिरवयवित्वेनावकल्पिताः ।