________________
पलिकासमेतः।
१९७ प्रतिभासोपलम्भेन संशयात् , तस्य च नीलादिरूपस्यैकानेकस्वभावशून्यत्वेन प्रान्तज्ञानप्रतिभासात्मकत्वात् , नापि परमाणवः सिद्धास्तेषां पौर्वापर्यावस्थायितया दिग्भागभेदिनामेकत्वासिद्धेः । तं प्रति कथं नीलादिरूपतया परमाणूनां प्रत्यक्षत्वं पौर्वापपर्यस्य वानुपलक्षणं भ्रान्तिनिमित्तेनार्थान्तरसमारोपादिति शक्यं वक्तुम् ।। ५८८ ॥
स्यादेतद्यद्यवयवी न स्यात्तदा कथं बहुषु परमाणुष्वेकः पर्वत इति व्यवसायो व्यापृताक्षस्य भवतीत्याह-समानेत्यादि ।
समानज्वालासंभूतेर्यथा दीपेन विभ्रमः ।
नैरन्तयस्थितानेकसूक्ष्मवित्तौ तथैकथा ॥ ५८९ ॥ यथाहि-दीपादौ नैरन्तर्येण सदृशापरापरज्वालापदार्थसंभवात्सत्यपि भेद एकत्वविभ्रमो भवति तथा नैरन्तर्येणानेकसूक्ष्मतरपदार्थसंवेदनतोऽयमेकत्वविभ्रम इत्यदोषः ॥ ५८९॥ यद्येवं भेदेनानुपलक्ष्यमाणाः कथमणवः प्रत्यक्षाः सिध्यन्तीत्याह-विवेकेत्यादि ।
विवेकालक्षणात्तेषां नो चेत्प्रत्यक्षतेष्यते।
दीपादौ सा कथं दृष्टा किं वेष्टोऽवयवी तथा ।। ५९० ॥ यदि हि विवेकेनानवधार्यमाणं न प्रत्यक्षमिष्यते, तदा दीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणे सा प्रत्यक्षता कथं दृष्टा । अवयवी वाऽवयवविवेकेनागृह्यमाणोऽपि किं तथा प्रत्यक्षत्वेनेष्ट इत्यनैकान्तिकमेतत् ॥ ५९० ॥ एतावदित्यादिना परं चोदयितुं शिक्षयति
एतावत्तु भवेदत्र कथमेषां न निश्चये। नीलादिपरमाणूनामाकार इति गम्यते ॥ ५९१ ॥ तदप्यकारणं यस्मान्नैव ज्ञानमगोचरम् ।
नचैकस्थूलविषयं स्थौल्यैकत्वविरोधतः ।। ५९२ ॥ एषामिति । परमाणूनाम् । तदपीति । परमाणूनां विवेकेनालक्षणं यत्तदकार- णम् , परमाणुगतनीलाद्यग्रहणस्यान्यतोऽपि निश्चयोत्पत्तेः । तथाहीदं ज्ञानमविषयं तावद्वहिरर्थवादिना सता नैवेष्टव्यमन्यथा हि विज्ञानमात्रतादर्शनमेव स्यात् । स चायं रूपादिविषयः स्थूलरूपतयावभासमान एको वा स्यादनेको वा, एकोऽपि भवन्नारब्धो वा स्यादवयवैरनारब्धो वा । तत्र न तावदुभयात्माऽप्ययमेको युक्तः प्रत्यक्षादिविरोधात् ॥ ५९१ ॥ ५९२ ॥