________________
१९६
तत्त्वसङ्ग्रहः।
अध्यक्षताया अबाघा अध्यक्षताऽबाधेति समासः । असमस्तं वैतत् । अविद्यमानबाधत्वादबाधा । पानकादिष्विवाध्यक्षताऽवस्थितेत्यर्थः । तथाहि-पानके तप्तोपले सूतहेमादौ च मिश्रे परमाणव एव तथोपलभ्यन्ते । नहि तत्रावयविद्रव्यमस्ति, वि. जातीयानां द्रव्यारम्भकत्वात् । नचापि परमाणुशोध्यति(भ्योऽवयवि ?)भेदे संयोगो दृश्य उपपद्यते, अदृष्टाश्रयत्वात् । यत्र ोकोऽपि संयोगी न दृश्यस्तत्र संयोगो न दृश्यते । यथा पिशाचघटसंयोगः सूर्यमण्डलाकाशदिग्देशसंयोगश्च । यत्र पुनः सर्व एवं संयोगी परमाण्वात्मको न दृश्यते, तत्र कथं संयोगस्तदाश्रितो दृश्यः स्यात् ॥ ५८६ ॥
यद्येवं सर्वप्रकारेणानिश्चये सति कथं नाम प्रत्यक्षता तेषां युक्तिमतीत्याह-सर्वेषामित्यादि।
सर्वेषामेव वस्तूनां सर्वव्यावृत्तिरूपिणाम् ।
दृष्टावपि तथैवेति न सर्वाकारनिश्चयः ॥ ५८७ ॥ नह्यपरदर्शनानां क्वचिदपि वस्तुनि प्रत्यक्षेण गृहीतेऽपि सर्वाकारनिश्चयोऽस्ति । यावता तु रूपेणार्थान्तरव्यावृत्तिकृतेन न निश्चीयते, तावता तत्प्रत्यक्षमिति व्यवस्थाप्यते । न सर्वाकारेण । गृहीतस्यापि प्रकारान्तरस्य निश्चयानुत्पत्तेर्व्यवहारायोग्यत्वेनागृहीतकल्पत्वात् । तथैवेति । यथा तद्वस्त्वनुभूतम् ॥ ५८७ ॥ . ननु च निरंशतया सर्वात्मनैव प्रत्यक्षेणानुभूतत्वाद्वस्तुनः कस्मात्सर्वात्मना निश्वयो न भवतीत्याह-अकल्पनाक्षगम्येऽपीत्यादि ।
अकल्पनाक्षगम्येऽपि निरंशेऽर्थस्य लक्षणे।
यझेदव्यवसायेऽस्ति कारणं स प्रतीयते ॥ ५८८ ॥ __ अक्षे भवमाक्षमिन्द्रियज्ञानमित्यर्थः । अकल्पनमविद्यमानकल्पनं च तदाक्षं चेति विप्रहः । तेन गम्येऽपि-निर्विकल्पेन्द्रियज्ञानगम्येऽपीत्यर्थः । यद्देदव्यवसाय इति । यस्माद्भेदो व्यावृत्तिर्यद्भेदस्तत्र व्यवसायो निश्चयस्तस्य कारणमभ्यासः प्रत्यासत्तिस्तारतम्यबुद्धिपाटवं चेत्यादि । नानुभवमात्रमेव निश्चयकारणं किंत्वभ्यासादयोऽपि । तेन यत्र ते सन्ति तत्र निश्चयः प्रसूयत इत्यर्थः । एतच्च सर्व परमाणूनां सिद्धिं बाह्यस्य चार्थस्य प्रत्यक्षत्वसिद्धिमभ्युपगम्योक्तम् । यस्य तु विज्ञानवादिनो न बाहोऽर्थो नीलादिरूपतया प्रत्यक्षसिद्धः, स्वप्नादौ विनापि बाह्यमर्थ तथाविधनीलादि