________________
पलिकासमेतः।
१९५ पटो न सिद्धः । तद्भेदस्यैव प्रसाधयितुं प्रस्तुतत्वात् । न च पटस्तन्तव इति संज्ञामात्राद्वस्तूनां भेदः, प्रयोजनान्तरवशेनापि संज्ञान्तरस्य निवेशात् । तथाहि केचिसन्तवो विशिष्टावस्थाप्राप्ताः शीतापनोदनाघेकार्थक्रियासमर्था भवन्ति, नापरे ये योपित्कर्तृकाः। तत्रैकार्थक्रियोपयोगिनस्तन्तून्विशिष्टान्प्रतिपादयितुं पट इत्येका श्रुतिविनिवेश्यते व्यवहर्तृभिरसाकर्येण व्यवहारायासत्यप्यर्थान्तरत्वे । कस्मात्पुनरेका श्रु. तिर्विनिवेश्यत इत्याह-पृथक्श्रुतावित्यादि । पृथक्पृथक्-प्रत्येकं श्रुतौ-अ. मिधाने सति गौरवदोषः । तथाहि-तत्र यावन्तः पदार्था विवक्षितैककार्यसाधनयो. ग्यास्तावन्त एव शब्दाः प्रयोक्तव्या इति गौरवदोषः । नचाप्येषामसाधारणं रूपं शक्यं निर्देष्टुमित्यशक्तिदोषः । उत्प्रेक्षितसामान्याकारेण च निर्देशे वरमेकयैव श्रुत्या प्रतिपादनं, न चास्य पृथक्पृथक्प्रतिपादनप्रयासस्य किंचित्फलमुपलभ्यत इति वैफल्यदोषः । सामत्येन त्वमिधाने कृते सति व्यवहारलाघवं गुणः । समस्तवस्तुविवक्षायां जगत्रिभुवनविश्वादिशब्दवदेका वागिति । पट इत्येवं वचनमित्यर्थः । कर्ता च सामर्थ्यपरिमाणादिधर्मश्चेति तौ तथोक्तौ, ततो विभिन्नशब्देन विशेषणसमासं कृत्वा मतुप कार्यः ॥ ५८१ ॥ ५८२ ॥ ५८३ ॥ ___यचोक्तं स्थूलार्थासंभव इत्यादि तत्राह-अन्योन्याभिसरा इति । असिद्धमणूनामतीन्द्रियत्वं विशिष्टावस्थाप्राप्तानामिन्द्रियग्राह्यत्वात् । यस्य हि नित्याः परमाणव इति पक्षस्तं प्रत्यणूनां विशेषाभावात्सर्वदैवातीन्द्रियत्वं स्यात् , नास्मान्प्रति । अन्योन्याभिसरा इति ।
अन्योन्याभिसराश्चैवं ये जाताः परमाणवः ।
नैवातीन्द्रियता तेषामन्यानां गोचरत्वतः ॥ ५८४॥ अन्योन्यसहाया इत्यर्थः ॥ ५८४ ॥ नीलादिरित्यादिना तदेवाक्षगोचरत्वं दर्शयति ।
नीलादिः परमाणूनामाकारः कल्पितो निजः ।
नीलादिप्रतिभासा च वेद्यते चक्षुरादिधीः ॥५८५॥ ननु च पौर्वापर्यादिदिग्भेदेन परमाणवोऽवस्थिता इष्यन्ते नच तेन रूपेणोपलक्ष्यन्ते । तत्कथमेषां प्रत्यक्षतेत्याह-पौर्वापर्यविवेकेनेत्यादि ।
पौर्वापर्यविवेकेन यद्यप्येषामलक्षणम् । तथाऽप्यध्यक्षताऽबाघा पानकादाविव स्थिता ॥ ५८६ ॥