________________
१९४
तत्त्वसङ्ग्रहः। पदार्थविषयं विज्ञानं, तस्मिन् सति सद्व्यवहारप्रवर्तनात् । तथा ज्ञानजनितं शेयत्वम् , अमिधानजनितमभिधेयत्वमिति । अतो व्यतिरेकनिबन्धना षष्ठी भवत्येव । नचाप्यनवस्था, नापि षट्पदार्थान्तरप्रसङ्ग इति । तस्यापीदं कल्पनामात्रमेव । यदि पर्थक्रियासमर्थपदार्थात्मकमात्मतत्त्वमेषामस्त्येव तदा तेऽर्थक्रियासमर्थाः पदार्था एव भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तेषामस्तित्वमित्येवं यदि व्यतिरेकविभक्त्या व्यपदिश्यरंस्तदा को विरोधः । तदव्यतिरिक्तमपि हि स्वरूपं बुद्ध्या ततोऽवकृष्य व्यतिरिक्तमिवामिधीयमानमविरोध्येव, वाचामिच्छामात्रवृत्तित्वादुत्पाद्यकथोपरचितेषु बाहुल्यसौन्दर्यादिधर्मपरिकल्पनवदिति यत्किंचिदेतत् ॥ ५७८ ॥ विभिन्नकर्तृशक्यादेरित्यादावाह-प्रथमेभ्यश्चेत्यादि ।
प्रथमेभ्यश्च तन्तुभ्यः पटस्य यदि साध्यते । भेदः साधनवैफल्यं दुर्निवारं तदा भवेत् ॥ ५७९ ॥ प्राप्तावस्थाविशेषा हि ये जातास्तन्तवोऽपरे।
विशिष्टार्थक्रियासक्ताः प्रथमेभ्योऽविलक्षणाः ॥५८०॥ यदि प्रथमावस्थाभाविभ्योऽसमधिगतपटाख्यानेभ्यस्तन्तुभ्यः पटस्य भेदः साध्यते तदा सिद्धं साध्यते । सर्वभावानां क्षणिकत्वेन पूर्वकेभ्यस्तन्तुभ्यः पटशब्दवाच्यानां तन्तूनां तद्विलक्षणपदार्था(र्थत्वा ?)संभवेऽप्युत्पादस्याङ्गीकरणात् ॥ ५७९ ॥ ॥५८०॥
अथ पटसमानकालभाविनो ये तन्तवस्तेभ्यः पटस्यान्यत्वं प्रसाध्यते तदा हेतूनामसिद्धतेति दर्शयन्नाह-एकेत्यादि ।
एककार्योपयोगित्वज्ञापनाय पृथक्श्रुतौ । गौरवाशक्तिवैफल्यदोषत्यागाभिवाञ्छया ॥५८१ ॥ साकल्येनाभिधानेन व्यवहारस्य लाघवम् । मन्यमानैः कृता येषु वागेका व्यवहर्तृभिः॥५८२ ॥ तेश्यः समानकालस्तु पटो नैव प्रसिद्ध्यति ।
विभिन्नकर्तृसामर्थ्यपरिमाणादिधर्मवान् ॥ ५८३ ॥ यदि तदानीं तन्तुव्यतिरिक्तस्तत्समानकालभावी पटः प्रसिद्धो भवेत्तदा तस्य त. न्तुव्यपेक्षया निमित्रकर्तृत्वादयो धर्माः सिद्धयेयुर्यावता स एवायं तन्तुव्यतिरेकी