________________
पलिकासमंतः।
१९३ षभिः पदार्थैः । कः संबन्धो येन तेषामसौ धर्मो भवति । नहि संबन्धमन्तरेण धमिधर्मभावो युक्तोऽतिप्रसङ्गात् । एवं हि सर्वस्य सर्वधर्मत्वं स्यात्, नहि कश्चिचैः सह संबन्धोऽस्ति । तथाहि-द्विविध एव संबन्धः संयोगलक्षणः समवायलक्षणश्च, तत्र न तावत्संयोगलक्षणस्तस्य गुणत्वेन द्रव्येष्वेव नियतत्वात् । नच समवायात्मकस्तस्य भाववदेकत्वेनेष्टत्वात् । समवायेन च समवायात्मके संबन्धे सति द्वितीयः समवायोऽङ्गीकृतः स्यात् ।। ५७४ ॥ ५७५ ॥ विनैव संबन्धं धर्मधर्मिभावो भविष्यतीति बेलाह-संबन्धानुपपत्तावित्यादि।
संबन्धानुपपत्तौ च तेषां धर्मों भवेत्कथम् ।
तदुत्पादनमात्राचेदन्येऽपि स्युस्तथाविधाः ॥ ५७६ ॥ एवं ह्यतिप्रसङ्गः स्यादित्युक्तम् । अथ तैः षभिः पदार्धर्मस्योत्पादनात्तेषामयं धर्मः संबन्धीत्युच्यते । यद्येवमन्येऽपि तर्हि जलादयस्तदुत्पत्तिलक्षणसंबन्धमात्रादेव तथाविधाः-कुण्डादिसंबन्धिनः स्युः भवेयुः । ततश्च संयोगसमवायाख्यसंबन्धान्तरकल्पना तेषु व्यर्था स्यात् ॥ ५७६ ॥
तस्याप्यस्तित्वमित्येवं वर्तते व्यतिरेकिणी।
विभक्तिस्तस्य चान्यस्य भावेऽनिष्ठा प्रसज्यते ॥ ५७७॥ किंच भवतु नाम षण्णामस्तित्वं नाम धर्मान्तरं तथापि व्यभिचार एव । तथाहि तस्याप्यस्तित्वमस्त्येव वस्तुत्वात् । ततश्च तत्र व्यतिरेकनिबन्धना विभक्तिः कथं भवेत् । अथ तत्राप्यपरमस्तित्वमङ्गीक्रियते तदाऽनवस्था स्यात् ॥ ५७७ ॥ इष्टत्वान्नानवस्था बाधिकेति चेदाह-अन्येत्यादि ।
अन्यधर्मसमावेशे प्राप्ता तत्र च धर्मिता।
द्रव्यादेरपि धर्मित्वमस्मादेव च संमतम् ॥ ५७८ ॥ सर्वेषामेव युत्तरोत्तरधर्मसमावेशाद्धर्मित्वं स्यात् । ततश्च षडेते धर्मिण एव प्रोक्ता इत्येतन्नोपपद्यते, षट्पदार्थव्यतिरेकेणान्येषामपि धर्मिणां विद्यमानत्वादिति भावः । अथापि स्यात्-ये धर्मिरूपा एव त एव षट्त्वेनावधारिताः, इत्येतदप्यसारम् । एवं हि गुणकर्मसामान्यविशेषसमवायानामनिर्देशः स्यात् । नह्येषां धर्मिरूपत्वमेव, किं तर्हि, धर्मरूपत्वमपि, द्रव्याश्रितत्वादेषाम् । अस्मादेवेति । अन्यधर्मसमावेशात् । अन्यः पुनराह-षण्णामस्तित्वं हि सदुपलम्भकप्रमाणगम्यत्वम् । गम्यत्वं च षट्
२५