________________
तस्वसः । यदि हि यथावस्तु षष्ठ्यादीनां प्रवृत्तिः सिद्धा स्यात्तदा भवेचतो वस्तुसिद्धिः । यावता खतबेच्छामात्रभाविन एते, न वायवस्तुगतभेदायपेक्षिणः, तत्कथमेतेभ्यो वस्तुसिद्धिः । तत्र षष्ठी पटस्य रूपादय इति, पटो रूपादय इति वचनभेदः । मादि. प्रहणाविह पटे रूपादय इति सप्तमी, पटस्य भावः पटत्वमिति तद्धितोत्पत्तिरित्याविपरिग्रहः ।। ५७१ ॥ तथाहीत्यादिनाऽनैकान्तिकत्वमेव समर्थयते ।
तथाहि भिन्नं नैवान्यैः षण्णामस्तित्वमिष्यते। .
तेषां वर्गच नैवैकः कश्चिदर्थोऽभ्युपेयते ॥ ५७२॥ तथाहि-पण्णां पदार्थानामस्तित्वं तेषां च षण्णां वर्ग इत्यादावसत्यपि वास्तवे भेदे षष्ठयादि भवत्येव । नहि भवद्भिः षट्पदार्थव्यतिरिक्तमस्तित्वादीष्यते । उपलक्षणमेतत् । तथा दाराः सिकता इत्यादौ सत्यपि बहुवचने नार्थभेदं पश्यामः । खना भावः स्वत्वमिति न भावोऽन्य इष्यते ॥ ५७२ ॥ संज्ञापकेत्यादिना परस्योत्तरमाशङ्कते।
संज्ञापकप्रमाणस्य विषये तत्त्वमिष्यते।
षाणामस्तित्वमिति चेत्षड्भ्योऽन्यस्ते प्रसज्यते ॥ ५७३ ॥ संज्ञापकप्रमाणविषयस्य भावस्तत्त्वं सदुपलम्भकप्रमाणविषयत्वं नाम धर्मान्तरं षण्णामस्तित्वमिष्यत इत्यर्थः । अतो नास्ति व्यभिचार इति भावः । अत्रोत्तरमाहपडयोऽन्यस्ते प्रसज्यते-पदार्थ इति शेषः । सप्तमः पदार्थः प्राप्नोति । ततश्च षट्पदार्थाभ्युपगमो हीयत इति भावः ॥ ५७३ ॥ इष्टत्वाददोष इति चेत् । यद्येवं कथं षट्पदार्था इति प्रोक्तमित्याह-पडेत इति।
षडेते धर्मिणः प्रोक्ता धर्मास्तेभ्योऽतिरेकिणः। इष्टा एवेति चेत्कोऽयं संबन्धस्तस्य तैर्मतः ॥ ५७४ ॥ द्रव्येषु नियमानुक्ता न संयोगो न चापरः।
समवायोस्ति नान्यश्च संबन्धोऽङ्गीकृतः परैः॥ ५७५ ॥ ___ धर्मिरूपा एव ये भावास्ते षट्पदार्था इति प्रोकाः, धर्मरूपास्तु षट्पदार्था ब्य
Mali पास्त पदपायो - तिरिका इष्टा एव । तथाहि पदार्थप्रवेशके प्रन्थः-"एवं धर्मविना धर्मिणामेष निशकत" इति । कोयमित्यादिनोचरमाह-तस्य-अस्तित्वादेर्मस्य । तैरिति ।