________________
पविकासमेतः।
१९१ स पुरुषो रूपादिप्रचयमात्रात्मको हेतुर्यस्य सनिवेशस्य स तथोक्ता-तहेतुः सनिवेश:-संस्थानविशेषो यस्य कञ्चकस्य तत्तथोक्तम् । एतेन कार्याख्यलिङ्गविशेपजनितत्वमनुमानप्रत्ययस्योपदर्शितं भवति ॥ ५६७ ॥ यथोक्तं रके वाससि वस्त्रधीरिति तत्राह-कषायेत्यादि ।
कषायकुकुमादिभ्यो वस्त्रे रूपान्तरोदयः ।
पूर्वरूपविनाशे हि वाससः क्षणिकत्वतः ॥ ५६८ ॥ तत्र हि क्षणिकत्वाद्वाससः पूर्वशुक्लादिरूपविनाशे सत्यपूर्वमेव रूपादि सामग्र्यन्तरबलादुपजायते तस्मिंश्च प्रत्यक्षेण गृहीते पश्चाद्यथा समयाहितभेदं समुदायविषयं वासो वास इति प्रत्यक्षपृष्ठभावि सांवृतं परमार्थतो निर्विषयमेव प्रत्यवमर्शज्ञानमुत्पधत इत्यसिद्धमस्य प्रत्यक्षत्वम् । नाप्येतदनुमानं पूर्वप्रत्यक्षगृहीतविषयत्वादलैङ्गिकत्वाच । तस्मामात्र किंचिदमिभूतं रूपमस्ति ॥ ५६८ ॥
स्यादेतत्-यद्यदृष्टं शुक्लादिरूपं वाससो नास्त्येव तत्कथं धौताद्यवस्थायां पुनरुपलभ्यत इत्याह-पुनरित्यादि।
पुनर्जलादिसापेक्षात्तस्मादेवोपजायते।
रूपाद्रूपान्तरं शुक्लं लोहादेः श्यामतादिवत् ॥ ५६९ ॥ यथाग्निसंपर्कात्समुपजातभासुरादिरूपस्य लोहादेः पुनः श्यामादिरूपोत्पत्तिस्तद्वदूपान्तरमेवोपजायते शुक्लादीत्यविरोधः ॥ ५६९ ॥
स्यादेतत्कथमिदमवगम्यते रूपान्तरमेवोपजायते न पुनः प्राक्तनं रूपममिभूतत्वापागनुपलब्धं सत्पश्चादभिभवाभावादुपलभ्यत इत्याह-तादवस्थ्य इत्यादि ।
तादवस्थ्ये तु रूपस्य नान्येनाभिभवो भवेत् ।
प्राक्तनानभिभूतस्य खरूपस्यानुवर्तनात् ॥ ५७० ॥ प्रयोग:-यदपरित्यक्तानमिभूतस्वभावं न तस्य परेणामिभवोऽस्ति । यथा तस्यैव प्राक्तनावस्थायाम् , अपरित्यक्तानभिभूतखभावं च रूपममिभवावस्थायामिति व्यापकविरुद्धोपलब्धिः। परित्यक्तानमिभूतखभावत्वेऽङ्गीक्रियमाणे सिद्धमस्यान्यत्वम् ५७० रूपादीन्दीवरादिभ्य इत्यादावाह-षष्ठीत्यादि ।
षष्ठीवचनभेदादि विवक्षामात्रसंभवि। ततो न युक्ता वस्तूनां तत्खरूपव्यवस्थितिः ॥ ५७१॥