________________
१९०
तत्त्वसङ्ग्रहः ।
नन्वित्यादिना प्रतिविधत्ते - यदुक्तं स्फटिकादयः स्वगतगुणानुपलम्भेऽपि केवलाः समुपलम्भ्यन्त इति तदसिद्धम् । तज्ज्ञानस्यायथार्थतया भ्रान्तत्वेनाविषयत्वात् । तथाहि —— जपाकुसुमानुपधाने रक्तादिरूपेणासन्नेव (न १) स्फटिक उपलभ्यते । बलाकादयोऽपि धवलाः सन्तः श्यामरूपा वीक्ष्यन्ते । नच तेषां तात्त्विकी तद्रूपता-रक्तादिरूपताऽस्ति । कस्मात् ? स्वपक्षक्षयसंगतेः यदि हि तेषां तद्रूपता तात्त्विकी स्यातदा तद्रूपाग्रहणेऽपि तेषां ग्रहणमस्तीति योऽयं भवतामनन्तरोदितः पक्षस्तस्य क्षतिः स्यात् ॥ ५६४ ॥
स्यादेतल्लोहितादिरूपव्यतिरिक्तः स्फटिकादिरप्युपलभ्यत एवेत्याह- तद्रूपेत्यादि । तद्रूपव्यतिरिक्तच नापरात्मोपलभ्यते । नचान्याकारधीवेचा युक्तास्तेऽतिप्रसङ्गतः ।। ५६५ ॥
C
नहि तस्माल्लोहितादिरूपाद्व्यतिरिक्तोऽपरात्मा -- स्वभावः स्फटिकादिलक्षणो दृश्थते, रक्तादिरूपस्यैवोपलम्भात् । अतद्रूपा अपि स्फटिकादयो रक्तादिरूपेणोपलभ्यन्त इति चेदाह – नचेत्यादि । आकारवशेन हि प्रतिनियतार्थविषयता ज्ञानस्याव - स्थाप्यते । यदि चान्याकारस्यापि ज्ञानस्यान्यो विषयः स्यात् । एवं सति रूपज्ञानमपि शब्दादिविषयं स्याद्विशेषाभावात् ॥ ५६५ ॥
किंच भवतु नामान्याकारस्यापि ज्ञानस्यान्यो विषयस्तथापि नेष्टसिद्धिर्भवत इति दर्शयन्नाह — शुक्लादयस्तथेति ।
शुक्लादयस्तथा वेद्या इत्येवं चापि संभवेत् । तस्माद्धान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ।। ५६६ ॥
1
तथाहि —— शुद्धादय एव तद्व्यतिरिक्तगुणिपदार्थरहितास्तथा रक्तादिरूपेण विद्यन्त इत्येवमपि संभाव्यते । ततश्च न गुणिसिद्धिः । चकारोऽवधारणे, भिन्नक्रमश्च, शुष्ठादय इत्यस्यानन्तरं द्रष्टव्यः । भ्रान्तमिदमिति । अयथार्थत्वादिति शेषः ।। ५६६ ॥ यथोक्तं कथ्युकान्तर्गते पुंसीत्यादि । तदपि न प्रत्यक्षं सामिजल्पत्वादस्फुटाकारत्वाच । किं तर्ह्यानुमानिकमेतज्ज्ञानं रूपादिसंहतिमात्रलक्षणपुरुषविषयमित्यतो नावयविसिद्धिरिति दर्शयति — —कशुकेत्यादि ।
कश्शुकान्तर्गते पुंसि न ज्ञानं त्वानुमानिकम् । तद्धेतुसन्निवेशस्य कशुकस्योपलम्भनात् ।। ५६७ ।।