________________
पखिकासमेतः।
१८९ मानस्तुरणमस्ततो मिद्यते तथाऽपरः प्रयोगः । प्रत्येकं पृथिव्यप्तेजोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो मिन्नान्येकवचनबहुवचनविषयत्वात् , यथा चन्द्रो नक्षत्राणीति । वयैव हि चन्द्र इत्येकवचनं नक्षत्राणीति बहुवचनं चन्द्रनक्षत्राणां भेदनिबन्धनमुपलभ्यते, तथात्रापि पृथिवीत्येकवचनं रूपरसगन्धस्पर्शा इति बहुवचनं । एवं जलादिष्वपि योज्यम् । नक्षत्रभेदास्तु पुष्यादयः ।। ५५९ ॥ ५६० ॥ एवं गुणगुणिनोर्मेदं प्रसाध्यावयवावयविनोभेंदप्रसाधनायाह-विभिन्नेत्यादि ।
विभिन्नकर्तृशत्तयादेभिन्नौ तन्तुपटौ तथा।
विरुद्धधर्मयोगेन स्तम्भकुम्भादिभेदवत् ॥ ५६१ ॥ प्रयोगः-ये भिन्नकर्तृकार्यकालपरिमाणास्ते विभिन्नाः यथा स्तम्भकुम्भादयः, विमिनकर्तृकार्यकालपरिमाणाश्च विचारविषयाः । नासिद्धो हेतु प्यनैकान्तिकः । वि. रुद्धधर्माध्यासमात्रनिबन्धनो हि भावानां परस्परतो भेदः, यथा स्तम्भादीनां सचावयवावयविनोरप्यस्ति । तथाहि-तन्तूनां योषित्की, पटस्य विन्दः, शीतापनोदादिकार्यसमर्थः पटो न तन्तवः, प्रागपि तन्तूनामुपलब्धेः पूर्वकालभावित्वं, पटस तु पश्चाकुविन्दादिव्यापारोत्तरकालभावित्वम् , पटस्यायामविस्तराभ्यां यावत्प्रमाणं न तावत्प्रत्येकं तन्तूनामस्तीति मित्रपरिमाणत्वमतो नानैकान्तिकता हेतूनामिति भावः ॥ ५६१॥
एवं तावदनुमानतोऽवयवावयविनोर्मेदं प्रसाध्य प्रत्यक्षतोऽपि साधयन्नाह स्थू. लार्थेत्यादि ।
स्थूलार्थासंभवे तु स्यान्नैव वृक्षादिदर्शनम् । अतीन्द्रियतयाऽणूनां नचाणुवचनं भवेत् ॥ ५६२ ॥ स्थूलवस्तुव्यपेक्षो हि सुसूक्ष्मोऽर्थस्तथोच्यते।
स्थूलैकवस्त्वभावे तु किमपेक्षास्य सूक्ष्मता ॥५६३ ॥ यदि अवयवी न स्यात्सर्वाग्रहणप्रसंगः, परमाणूनामतीन्द्रियत्वात् । स्थूलाभावेऽणुरिति व्यपदेश एव न स्यात् । कस्मादित्याह-स्थूलवस्तुव्यपेक्षो हीत्यादि । सुबोधम् ॥ ५६२ ॥ ५६३ ॥
ननु रक्तादिरूपेण गृयन्ते स्फटिकादयः। नच तद्रूपता तेषां खपक्षक्षयसङ्गतः ॥५६४ ॥