________________
१८८
वत्स्वसहाहा।
गुणा रूपादयः, अवयवातन्त्वादयः, तेषां भेदो व्यतिरेक: सोऽस्यास्तीति त. थोकः । स तथाभूतो गुणावयवव्यतिरिक्तोऽवयवी नोपलभ्यते । नहि पटाविलक्षणमवयवि द्रव्यमविकलं शुक्लादिगुणेभ्योऽवयवेभ्यश्च तन्त्वादिभ्योऽर्थान्तरभूतं कचिष. धुरादिक्षाने च भासते । तदत्र गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भेन गुणगुणिवादो निरस्तः । अवयवव्यतिरिक्तावयव्यनुपलम्भेन त्ववयवावयविवादः । प्रयोगः-यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते तत्तत्र नास्ति, यथा कचित्प्रदेशविशेषे घटादिरनुपलभ्यमानः, नोपलभ्यते च गुणावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी दृश्यत्वेनामिमतोऽवयवी चेति स्वभावानुपलब्धेः । न चासिद्धो हेतुः, महत्यनेकद्रव्यवत्त्वाद्रूपाचोपलब्धिरिति वचनात्तयोदृश्यत्वेनामिमतत्वात् ॥ ५५६ ॥ नन्वित्यादिना-उद्योतकरभाविविक्तादयो हेतोरसिद्धतामुद्भावयन्ति ।
ननूपधानसंपर्के दृश्यते स्फटिकोपलः।। तद्रूपाग्रहणेप्येवं बलाकादिश्च दृश्यते ॥ ५५७ ॥ कञ्जकान्तरिते पुंसि तद्रूपाचगतावपि। .
पुरुषप्रत्ययो दृष्टो रक्ते वाससि वस्त्रधीः ॥५५८ ॥ त एवमाहुर्गुणव्यतिरिक्तो गुणी समुपलभ्यत एव । तद्रूपादिगुणाग्रहणेऽपि तस्य महणात् । तथाहि स्फटिकोपलः सन्निहितोपधानावस्थायां स्वगतशुलगुणानुपलम्भेऽपि दृश्यत एव । बलाकादिश्च रात्रौ मन्दमन्दप्रकाशायां तद्गतसितादिरूपादर्शनेऽपि गृपत एव । तथाऽऽप्रपदीनकञ्चकावच्छन्नशरीरे पुंसि तदा श्यामादिरूपाचाहणेऽपि पुमान् पुमानिति प्रत्ययः प्रसूयत एव । कषायकुङ्कुमादिरक्ते वाससि तद्रूपस्य संसपिरूपेणामिभूतस्यानुपलम्भेऽपि वस्त्रधीर्भवत्येव ॥ ५५७ ॥ ५५८ ॥
तदेवं तावत्प्रत्यक्षत एव गुणगुणिनोर्मेंदः सिद्ध इति प्रतिपादितम् । इदानीमनुमानतोऽपि सिद्ध इति प्रतिपादयन्नाह-रूपादीत्यादि ।
रूपादीन्दीवरादिभ्य एकान्तेन विभिद्यते । तेन तस्य व्यवच्छेदाचैत्रादेश्व तुरङ्गमः ॥ ५५९ ॥ क्षित्यादिरूपगन्धादेरत्यन्तं वा विभिद्यते।
एकानेकवचोभेदाचन्द्रनक्षत्रभेदवत् ॥ ५६०॥ इन्दीवरादिभ्यो गुणो मित्र इन्दीवरस्य रूपादय इत्येवं तेनेन्दीवरादिना तम रूपादेर्व्यवच्छेदात् । यथा चैत्रस तुरङ्गम इति चैत्रेण खाम्यन्तरेभ्यो व्यवच्छिा .