________________
१८७
पखिकासमेतः। देव स्थूलानां तनुभवनादीनामुदयोऽस्ति क्रमेण तन्वादीनामुत्पत्तिदर्शनात् । तस्माद्विपर्ययः । प्रयोगः-ये क्रमवत्कार्यहेतवस्ते नित्या यथा क्रमवदकरादिकार्यनिर्व
का बीजादयस्तथा च परमाणव इति स्वभावहेतुः ॥ ५५२ ॥ , भविद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनायं प्रमाणमाह-परमाणूनामुत्पादकामिमतं सद्धर्मोपगतं न भवति । सत्त्वप्रतिपादकप्रमाणाविषयत्वात् , खरविषाणवदिति । सतो विद्यमानस्य धर्मः सद्धर्मोऽस्तित्वं तेनोपगतं प्राप्तमस्तीत्यर्थः । तस्य प्रतिषेधोऽयम् । अणूत्पादकं कारणं नास्तीत्यर्थः । तदेतत्प्रमाणमाशङ्कापूर्वमुपदर्शयन्नाह-सद्धर्मोपगतमित्यादि ।
सद्धर्मोपगतं नोचेदणूत्पादकमिष्यते ।
विद्यमानोपलम्भार्थप्रमाणाविषयत्वतः ॥५५३ ॥ अणूत्पादकं सद्धर्मोपगतं नोचेदिष्यत इति संबन्धः। विद्यमानस्योपलम्भोऽधिगमः सोऽर्थः प्रयोजनं यस्य प्रमाणस्य तत्तथोक्तं। शेषं सुबोधम् । एतेनाणूनामनित्यत्वप्रतिज्ञाया अनुमानबाधितत्वमुद्भावितम् , सदकारणवन्नित्यमिति वचनात् । अकारणवत्त्वेनाणूनां नित्यत्वस्य सिद्धत्वात् ॥ ५५३ ॥ नासिद्धरित्यादिना हेतोरसिद्धतामाह ।
नासिद्धेदृश्यते येन कुविन्दाद्यणुकारणम् ।
परमाण्वात्मका एव येन सर्वे पटादयः ॥ ५५४ ॥ ननु कुविन्दादयः पटादीनामेव कारणत्वेन सिद्धा नाणूनां तत्कथमणुकारणं कुविन्दादि दृश्यत इत्याह-परमाण्वात्मका इत्यादि । एतच्च पश्चात्प्रतिपादयिष्याम इति भावः ॥ ५५४ ॥
अपिच देशकालखभावविप्रकृष्टानामर्थानामुपलम्भकप्रमाणनिवृत्तावपि सद्भावा विरोधात्ततोऽनैकान्तिकता च हेतोरिति दर्शयति-सद्राहकेत्यादि ।
सदाहकप्रमाभावान वा सत्ता प्रसिध्यति ।
प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः ॥५५५ ॥ नार्थाभावेऽस्ति निश्चय इति । पिशाचादिवदिति भावः ॥ ५५५ ॥ एवं तावत्कारणद्रव्यं निषिद्धय कार्यद्रव्यनिषेधार्थमाह-तदारब्ध इत्यादि ।
तदारब्धस्त्ववयवी गुणावयवभेदवान् । नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः ॥ ५५६ ॥