________________
सत्त्वसङ्कहः ।
तदेव वैविध्यमस्य दर्शयबाह-पृथिव्याधात्मकास्तावदित्यादि
पृथिव्यायात्मकास्तावद्य इष्टाः परमाणवः ।
अनित्या ये तदायैस्तु प्रारब्धास्ते विनाशिनः ॥५५०॥ परमाण्वात्मका हि पृथिव्यादयो नित्याः, परमाणूनां नित्यत्वात् । तदाथैस्तु प्रारख्या अनित्याः, हेतुमदनित्यमिति न्यायात् । तदाबैरिति । ते परमाणव आद्या येषां ते तदाद्याः । आकाशादयस्तु नित्या एवेति भावः ॥ ५५० ॥ तत्रैतवतुःसङ्ख्यं तावद्रव्यं निषे माह-तत्रेत्यादि ।
तत्र नित्याणुरूपाणामसत्त्वमुपपादितम् ।
निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात् ॥ ५५१॥ तत्र य एते नित्याणुरूपाः पृथिव्यादयो वर्णितास्तेषामशेषवस्तुव्यापिनः क्षणभअस्य प्रसाधनान्नित्यत्वरूपेणासत्त्वं प्रसाधितमेव । यत्सत्तत्सर्व क्षणिकमक्षणिकस्य योगपद्याभ्यामर्थक्रियाविरोधात्तलक्षणं सत्त्वं हीयत इति व्याप्तेः प्रसाधितत्वात्॥५५१॥ अत्रापि बाधकं प्रमाणमाह-नित्यत्व इत्यादि ।
नित्यत्वे सकलाः स्थूला जायेरन्सकृदेव हि।
संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः ॥ ५५२ ॥ यदि पर्वतादीनां स्थूलानां कारणभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यते तदा तत्कार्याणां स्थूलानामविकलकारणत्वात्सकृदेवोत्पत्तिप्रसङ्गः । प्रयोग:-ये समनाप्रतिबद्धकारणास्ते सकदेव भवन्ति । यथा बहवोऽङ्कुरास्तुल्योत्पादाः समप्राप्रतिबद्धकारणाश्च । नित्याणुकार्यत्वेनामिमताः स्थूला भावा इति स्वभावहेतुः । समग्रकारणस्याप्यनुत्पादे सर्वदेवानुत्पादप्रसङ्गो विशेषाभावादिति बाधकं प्रमाणम् । स्था. देतत्रिविधं कारणमिष्टं समवायिकारणमसमवायिकारणं निमित्तकारणं च । तत्र हि यत्समवैति कार्य तत्तस्य समवायिकारणं । असमवेतं तु यद्यस्य कारणभावं प्रतिपयते तदसमवायिकारणं यथाऽवयविद्रव्यारम्भेऽवयवसंयोगः । परिशेषं तु कारणं निमित्तकारणं तद्यथा धर्मादय इत्ययमेषां विभागः । तत्रापेक्षणीयस्य संयोगादेरसनिहितत्वात्समप्रकारणत्वमसिद्धमतोऽसिद्धो हेतुरित्याशङ्कयाह-संयोगादीति । यदि हि संयोगादिना कश्चिद्विशेषोऽणूनामाधीयेत तदा ते तमपेक्षेरन् । यावता परैरनाधेयविशेषा एवाणवो नित्यत्वात् । तत्कयं संयोगादि तेषामपेक्ष्यं स्यात् । न च सह