________________
पलिकासमेतः। तदेवं खपक्षं व्यवस्थाप्य सर्वथेत्यादिना परपक्षं प्रतिषेधयति ।
सर्वथाऽतिशयासत्त्वाद्याहता त्वात्मनीदृशी। . कर्तृभोक्तृत्वषन्धादिव्यवस्थाऽनित्यताऽन्यथा ॥ ५४६ ॥
इति कर्मफलसम्बन्धपरीक्षा। यदि हि रागादिमिः केशैर्बन्धो भावनादिभिश्चातिशयः कश्चिदात्मनः क्रियेत, तदा तस्य बन्धमोक्षादिव्यवस्था भवेत् । यावता नित्यतया न तस्यातिशयाधानमस्तीति नेयमीदृशी नियतकार्यकारणमर्यादालक्षणा बन्धमोक्षादिव्यवस्था घटते, यथाऽऽकाशस्येति भावः । अन्यथेति । यद्यतिशयोत्पादो भवेदात्मनस्तदाऽतिशयस्यात्मभूतत्वादात्मनोऽपि तदव्यतिरेकेणातिशयवदनित्यता स्यात् । परभूतस्त्वतिशयो न युक्तः संबन्धासिद्धेरिति शतधा चर्चितमेतत् ॥ ५४६ ॥
इति कर्मफलसंबन्धपरीक्षा ॥ इदानीं 'गुणद्रव्यक्रियाजातिसमवायाधुपाधिमिः । शून्य'मित्येतत्समर्थनार्थ षट्पदार्थपरीक्षोपक्षेपं कुर्वनाह-जात्यादेरित्यादि ।
जात्यादेनिःखभावत्वमयुक्तं प्राक्प्रकाशितम् । द्रव्यादयः षडा ये विद्यन्ते पारमार्थिकाः ॥ ५४७ ॥ इत्याक्षपादकाणादाः प्राहुरागममात्रकाः।
द्रव्यादिप्रतिषेधोऽयं सझेपेण तदुच्यते ॥५४८॥ प्राक् स्थिरभावपरीक्षायां "जात्यादेनिःस्वभावत्वान्नैवेष्टा क्षणभङ्गिते”त्यनेन यजात्यादेः निःखभावत्वं प्राक्प्रकाशितं तद्युक्तम् । यतो द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थाः पारमार्थिकाः सन्तीत्याहुराक्षपादादयः। अक्षपादशिष्यत्वादाक्षपादा नैयायिकाः । कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्ते । आगममात्रका इति । आगममात्रमपेतयुक्तिकमेषामस्तीत्यागममात्रकाः ॥ ५४७ ॥ ५४८॥ तत्र क्षित्यादीत्यादिना द्रव्यपदार्थप्रतिषेधार्थ तावत्तद्विभागमाह
क्षित्यादिभेदतो भिन्नं नवधा द्रव्यमिष्यते ।
चतुःसयं पृथिव्यादि नित्यानित्यतया द्विधा ॥ ५४९ ॥ विभक्तस्य हि भेदेन सुखं दूषणस्य वक्तुं शक्यत्वादिति भावः । नवधेति । पृ. थिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति सूत्रात् । तत्र पृथिव्यापस्तेजोबायुरियेतवतुःसायं द्रव्यं नित्यानित्यभेदेन द्विप्रकारम् ॥ ५४९॥