________________
१८४
तत्त्वसङ्ग्रहः। यञ्चोक्तं क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटेति । तत्राह-केषाश्चिदेवेत्यादि।
केषाश्चिदेव चित्तानां विशिष्टा कार्यकार्यिता।
नियता तेन निर्वाधाः सर्वत्र स्मरणादयः॥ ५४३ ॥ कार्यकार्यितेति । कार्यमस्यास्तीति कार्यि, कारणमित्यर्थः । कार्यकार्यिणोर्भावः कार्यकार्यिता । कार्यकारणभाव इत्यर्थः । न हि कश्चित्परमार्थतः स्मर्ताऽनुभविता वाऽस्ति । यतो येनैवानुभूतं स एव स्मरतीति स्यात् । किं तर्हि ? यत्र सन्ताने पटीयसाऽनुभवेनोत्तरोत्तरविशिष्टतरतमक्षणोत्पादात्स्मृत्यादिबीजमाहितं तत्रैव स्मरणादयः समुत्पद्यन्ते, नान्यत्र प्रतिनियतत्वात्कार्यकारणभावस्येति समासार्थः । यथोक्तम्"अन्यस्मरणभोगादिप्रसङ्गश्च न बाधकः । अस्मृतेः कस्यचित्तेन पनुभूते स्मृतोव” इति । स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्त इत्यविरुद्धम् । न चापि कचिदेकज्ञातृनिबन्धनाः प्रत्यभिज्ञानादयः सिद्धाः, येनोच्यते द्विभेदे त्वनिबन्धनमिति, कार्यकारणभावमात्रतया सर्वत्रैव भेदाभ्युपगमात् ॥ ५४३ ॥ ___ यच्चोक्तं-रागादिनिगडैर्बद्ध इत्यादिना बन्धमोक्षव्यवस्थानमनुपपन्नमिति, तत्राह-कार्यकारणभूताश्चेत्यादि। .
कार्यकारणभूताश्च तत्राविद्यादयो मताः ।
बन्धस्तद्विगमादिष्टो मुक्तिनिर्मलता धियः ॥ ५४४॥ नहि कचिदस्माकमेकपुरुषाधिकरणौ बन्धमोक्षौ प्रसिद्धौ, कस्यचिद्बध्यमानस्य मुच्यमानस्य चासिद्धेः । केवलमविद्यादयः संस्कारा जरामरणपर्यन्ता दुःखोत्पादहे. तुतया बन्ध इति व्यवहियन्ते । तथाचोक्तम्- "एवमस्य केवलस्य हेतोदुःखस्कन्धस्य समुदायो भवतीति । तेषां चाविद्यादीनां तत्त्वज्ञानाद्विगतौ सत्यां या निर्मलता धियः सा निर्मुक्तिरित्युच्यते । यथोक्तम्-"चित्तमेव हि संसारो रागादिलेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यत" इति ॥ ५४४ ॥ __ यच्चोक्तमेकाधिकरणावित्यादि, सत्रापि दृष्टान्तस्य साध्यविकलतेति दर्शयन्नाहएकाधिकरणौ सिद्धावित्यादि ।
एकाधिकरणौ सिद्धौ नैवैतौ लौकिकावपि ।
बन्धमोक्षौ प्रसिद्धं हि क्षणिकं सर्वमेव तत् ॥ ५४५ ॥ सर्वमेव हि वस्तूदयानन्तरापवर्गीति प्रसाधितं यदा तदा न कचिदेकाधिकरणत्वं बन्धमोक्षयोः प्रसिद्धमस्तीत्यप्रसिद्धो दृष्टान्तः ॥ ५४५ ॥