________________
पलिकासमेतः।
१८३ प्रायः । तस्मात्परसिद्धान्तानभिज्ञतया यत्किञ्चिदमिहितमनेनेत्युपेक्षामर्हति ॥५३८॥ ॥५३९॥ ___ कुमारिलस्त्वाह-न वयं केनचित्क; कृतस्य कर्मणो विप्रणाशात्कृतनाशाकृताभ्यागमौ ब्रूमः, नहि भवतां मते कश्चित्कर्तास्ति, किं तर्हि, निरन्वयकर्मतत्फलयोविनाशोत्पादाभ्युपगमात्कृतनाशाकृताभ्यागमौ प्रसज्येते इति । तदत्रैवंविधस्य कृतनाशस्याकृताभ्यागमस्य चेष्टत्वान्नानिष्टापादनं युक्तमिति दर्शयन्नाह-क्षणभेदविकल्पेनेति ।
क्षणभेदविकल्पेन क्षणनाशादि चोद्यते ।
यचैव नैवानिष्टं तु किश्चिदापादितं परैः ॥ ५४० ॥ पूर्वकस्य कर्मक्षणस्य निरन्वयं विनाशात्कृतनाशः फलक्षणस्य वाऽपूर्वस्यैवोत्पादादकृताभ्यागम इत्येवं यत्क्षणभेदविकल्पेन कृतनाशादि चोद्यते तदिष्टमेव । न हि खल्पीयसोऽपि वस्त्वंशस्य कस्यचिदन्वयोऽस्तीति प्रतिपादयिष्यामः ।। ५४० ।। यञ्चोक्तं नैव प्रवर्तेत प्रेक्षावानिति, तत्राह-अहीनसत्त्वेत्यादि ।
अहीनसत्त्वदृष्टीनां क्षणभेदविकल्पना। सन्तानक्याभिमानेन न कथञ्चित्प्रवर्तते ॥५४१ ॥ अभिसंबुद्धतत्त्वास्तु प्रतिक्षणविनाशिनाम् ।
हेतूनां नियमं बुट्वा प्रारभन्ते शुभाः क्रियाः ॥५४२ ॥ ये तावदाहीणसहजेतरसत्कायदर्शनादयस्तेषामयं क्षणभेदविकल्पो नास्त्येव । तथाहि-ते सन्ततिमेकत्वेनाध्यवसाय सुखिता वयं भविष्याम इत्याहितपरितोषाः कर्मसु प्रवर्तन्ते । येऽपि पृथग्जनकल्याणा एवं युक्त्यागमाभ्यां यथावत्क्षणिकात्मतयोवबोधादमिसंबुद्धतत्त्वास्तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते । करुणादिपू
केभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्परया समुत्पद्यन्ते । न तु हिंसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादिक्रियासु प्रवर्तन्ते । यथोक्तं-"यावश्चात्मनि न प्रेम्णो हानिः सपरितस्यति (सपदि नश्यति ?) तावदुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि भोक्तरी"ति । कार्यकारणभावस्तदधिगन्तृ च प्रमाणं यथा सिध्यति तथा प्रतिपादितमेव ॥ ५४१ ॥ ५४२ ॥