________________
१८२
तत्त्वसहहः।
तरः पक्षोऽङ्गीकर्तव्योऽन्यथाऽर्थमाहिशानं न सिवेत् । न चाप्येतत्पक्षद्वयव्यतिरेकेणान्या प्रकारोऽस्ति । येन ज्ञानमर्थ प्रहीष्यति । यचोभयोर्दोषो न तत्रैकश्योद्यो युक्तः । तेन यत्रोत्तरं भवतस्तदस्माकमपि भविष्यति । तथाहि-साकारपक्षे भव. ताऽवश्यमाकाराणामलीकत्वं सहोपलम्भनियमाद्वैकज्ञानाव्यतिरेकित्वं सत्यपि भेद इत्युत्तरमुपवर्णनीयम् । तदेवास्माकं भविष्यति, निराकारपक्षेऽपि पूर्वहेतुकृत एव प्रतिनियतार्थावबोधकः स्वभावो ज्ञानस्येति वर्णनीयम् । तदैतदस्माकमपि निराकारविज्ञानवादिनां बौद्धानामुत्तरं भविष्यतीत्यचोद्यमेतत्समाधानमिति परिहारः ॥५३७॥
तदेवं कार्यकारणभावाधिगन्त प्रमाणं प्रतिपाद्य कृतनाशाकृताभ्यागमदोषं परिहरनाह-कृतनाश इत्यादि ।
कृतनाशो भवेदेवं कार्य न जनयेद्यदि । हेतुरिष्टं न चैवं यत्प्रबन्धे नास्ति हेतुता ॥ ५३८ ॥ अकृताभ्यागमोऽपि स्याद्यदि येन विना कचित् ।
जायेत हेतुना कार्य नैतन्नियतशक्तितः ॥ ५३९ ॥ यदि हि परमार्थतः कश्चित्कर्ता भोक्ता वाऽभीष्टः स्यात्तदा क्षणभङ्गित्वाङ्गीकरणे कृतनाशादिप्रसङ्गः स्यात् , यावतेदं प्रत्ययतामात्रमेव विश्वं न केनचित्क; किंचिकृतं नामि(पि ?)भुज्यते । तत्कथं कृतनाशादिप्रसङ्गापादनं स्यात् । अथ पूर्वकुशलादिचेतनाहितेष्टानिष्टफलोत्पादनसामर्थ्यविप्रणाशात्पूर्वकर्मानाहितसामर्थ्यविशेषाच कारणतः फलोत्पत्तेर्यथाक्रमं कृतनाशाकृताभ्यागमदोषप्रसङ्गो विधीयते । तद्युक्तम् । न हि पूर्वकर्माहितसामर्थ्यानुबन्धनस्य नैरात्म्येन सह कश्चिद्विरोधः । तथाहिलाक्षादिरसावसिक्तानामिव बीजानां सन्तानमनुवर्तन्त एव पूर्वकर्माहिताः सामर्थ्यविशेषाः यत उत्तरकालं लब्धपरिपाकेभ्य इष्टमनिष्टं वा फलमुदेति । नापि पूर्वकर्मानाहितसंस्कारात्सन्तानात्फलोत्पत्तिरिष्यत इति कुत: अकृताभ्यागमो दोषः । उहयोतकरस्त्वाह-अस्थिरत्वाञ्चिचस्य न कर्ममिर्वासनं संभवतीति । तद्युक्तम् । न हि स्थिरस्यापरित्यक्ताकनखरूपस्य वासनमस्ति । अस्थिरस्य तु विशिष्टस्वभावान्तरोत्पादनमेव वासना । यत्पुनः स्थिरमव्याकृतं वास्यमित्युक्तं शाने तत्प्रबन्धस्थिरताममिप्रेत्य । यो छुच्छेदी सन्तानस्तस्य चिरतरकालभाविफलप्रसवकाले समिधानाभावान कारणत्वमस्ति, तेन तस तथाविधफलोत्पादं प्रति वासनाधारत्वमयुक्तमित्यमि