________________
१८१
पत्रिकासमेतः। भावाभावाविमौ सिद्धौ प्रत्यक्षानुपलम्भतः । यदि साकारविज्ञानविज्ञेयं वस्तु चेन्मतम् ॥ ५३३ ॥ यदाऽनाकारधीवेद्यं वस्तु युष्माभिरिष्यते । तत्क्षणत्वादिपक्षेऽपि समानमुपलभ्यते ॥ ५३४ ॥ पूर्वकेभ्यः खहेतुभ्यो विज्ञानं सर्वमेव हि ।
समांशकालरूपादि बोधरूपं प्रजायते ॥५३५ ॥ यथैव हि भवतः स्थिरपदार्थोपलम्भः सिद्ध्येत्तथाऽस्माकं क्षणिकस्यापि सेत्स्यति । तथाहि-पदार्थस्योपलम्भो भवन्साकारेणैव विज्ञानेन भवेदनाकारेण वा । तत्र यदि साकारेण तदा स्वाकारानुभव एव ज्ञानस्यार्थानुभव इति स्थिरास्थिरपक्षयोर्न कश्चिद्विशेषः । अथानाकारेण तदाप्यविशेष एव । तथाहि-पूर्वकेभ्य एव स्वहेतुभ्यस्तथा तत् ज्ञानमुपजायते, येन स समानकालभाविरूपायेवावबुध्यते नान्यत् । तद्बोधात्मकस्यैव तस्योत्पन्नत्वात् । अतः समानकालभाविरूपादिबोधस्वभावे ज्ञानेऽङ्गीक्रियमाणे न कश्चिदर्थस्य स्थिरास्थिरत्वे विशेषः । अवश्यं च भवता पूर्वहेतुकृत एव समानकालभाविप्रतिनियतरूपादिग्रहणे ज्ञानस्य स्वभावोऽङ्गीकर्तव्यो येन तुल्येऽपि समानकालभावित्वे रूपायेव ज्ञानं परिच्छिनत्ति नेन्द्रियमिति स्यात्। तच्च क्षणिकत्वे. ऽपि भावानां तुल्यमेवेति यत्किचिदेतत् ।। ५३३ ।। ५३४ ।। ५३५ ।। साकार इत्यादिना परो द्वयोश्चोदयति ।
साकारे ननु विज्ञाने वैचित्र्यं चेतसो भवेत् ।
नाकारानङ्कितत्वेऽस्ति प्रत्यासत्तिनिबन्धनम् ॥ ५३६ ॥ यदि साकारं ज्ञानं तदा चित्रास्तरणादिषु ज्ञानस्य चित्रत्वं भवेत् । न चैकस्य चित्रत्वं युक्तमतिप्रसङ्गात् । अथानाकारं तदा नीलास्पदं संवेदनं न पीतस्येति व्यवस्थानं न सिद्ध्येत् । सर्वत्र बोधरूपतया विशेषाभावेन प्रत्यासत्तिनिबन्धनाभावात् ॥ ५३६ ॥ भवद्भिरपीत्यादिना प्रतिविधत्ते
भवद्भिरपि वक्तव्ये तदस्मिन्किञ्चिदुत्तरे ।
यचात्र का समाधानमस्माकमपि तद्भवेत् ॥ ५३७ ॥ समानमेतहयोरपि चोद्यम् , यतो भवताऽपि साकारानाकारपक्षाभ्यामवश्यमन्य
+