________________
तत्त्वसङ्ग्रहः।
क्षणिका हि यथा बुद्धिस्तथैवान्येऽपि जन्मिनः।
साधितास्तद्वदेवातो निर्व्यापारमिदं जगत् ॥ ५२९ ॥ सापिता इति । स्थिरभावपरीक्षायां सकलवस्तुव्यापिनः क्षणभङ्गस्य साधितत्वात् । तद्वदेवेति । बुद्धिवदेव । अत इति । क्षणिकत्वात् । प्रयोग:-ये क्षणिकास्ते जन्मातिरिक्तव्यापारशून्याः, यथा बुद्धिः, क्षणिकाश्च बीजादयः पूर्व प्रसाधिता इति खभावहेतुः । पश्चादवस्थित्यभावेन निराधारव्यापारायोगो बाधकं प्रमाणं तस्मादानन्तर्यकमात्रमेव कार्यकारणभावव्यवस्थानिबन्धनं न व्यापार इति स्थितमेतत् ॥५२९॥
यञ्चोक्तं जायमानश्च गन्धादीत्यादि, तत्रापि न व्यभिचार इति दर्शयन्नाहप्रबन्धेत्यादि।
प्रबन्धवृत्त्या गन्धादेरिष्टैवान्योन्यहेतुता।
तबाधकमेवेदं तद्धेतुत्वप्रसञ्जनम् ॥ ५३० ॥ रूपरसादीनां हि परस्परं प्रबन्धापेक्षया सहकारिकारणभावोऽभीष्ट एव । यथो. तम्-"शक्तिप्रवृत्त्या न विना रसस्यैवान्यकारणम् । इत्यतीतैककालानां गतिस्तकार्यलिङ्गजे"ति ॥ ५३० ॥
ननु चानेरिव गवाश्वादेरप्यनन्तरं कदाचिभूमो भवति तत्कथमानन्तर्य न व्यभिचारीत्याह-अन्यानन्तरभावेऽपीत्यादि ।
अन्यानन्तरभावेऽपि किश्चिदेव च कारणम् ।
तथैव नियमादिष्टं तुल्यं चैतत्स्थिरेष्वपि ।। ५३१ ॥ न हि वयमानन्तर्यमानं कार्यकारणभावाधिगतिनिबन्धनं ब्रूमः किं तर्हि ? यनियतम् । तथाहि यस्यैवानन्तरं यद्भवति तत्तस्य कारणमिष्यते। न च धूमो गवादेरेवानन्तरं भवति, असत्यपि गवादौ तस्य भावात् । किंच भवतोऽप्यत्र स्थिरवादिनश्चोद्यमेतदवतरति, कस्माद्वादेरनन्तरं धूमो भवन्नपि तत्कार्य न भवतीति ॥ ५३१ ॥ अत्र पर आह—यो यत्रेत्यादि ।
यो यत्र व्यापृतः कार्य न हेतुस्तस्य चेन्मतः।
यस्मिन्नियतसद्भावो यः स हेतुरितीष्यताम् ॥ ५३२॥ यस्मिन्नित्यादिना स्वपक्षेऽपि परिहारमाह ॥ ५३२ ॥
एवं तावत्क्षणिकत्वेऽपि भावानां कार्यकारणभाव उपपादितः। इदानीं तदधिगन्तप्रमाणोपपादनार्थमाह-भावाभावावित्यादि ।