________________
f"
पविकासमेतः ।
दृश्यत्वाभिमतं नैवं वयं चोपलभामहे ।
तत्कथं तस्य सम्बन्धमङ्गीकुर्मो निबन्धनम् ॥ ५२७ ॥
दृश्यत्वेन हि भवतां व्यापारोऽभिमतः यथोक्तं कुमारिलेन -" प्राकार्यनिष्पत्ते
१७९
,
溅
र्व्यापारो यस्य दृश्यत" इत्यादि । अपि च स व्यापारात्मा पदार्थस्तस्माद्व्यापारवतो भावादर्थान्तरभूतो वा स्यादनर्थान्तरभूतो वा, वस्तुसतः प्रकारान्तराभावात्, उभयानुभयविकल्पस्यासंभव एव । सच यद्यर्थान्तरभूतस्तदा पदार्थस्य कारणत्वं न प्रानोति । तद्व्यतिरेकिणो व्यापारस्यैव कारणभावात् । व्यापारेण संबन्धात्तस्यापि कार - णभावोऽस्तीति चेत् । न । परस्परानुपकारिणोः संबन्धासिद्धेः । अथोपक्रियत एव व्यापारः पदार्थेनेति स्यात् । तदप्ययुक्तम् । न हि तस्यापरो व्यापारोऽस्ति, व्यापारमुपकुर्यादन्यथा ह्यनवस्थायां व्यापाराणामेव परस्परं घटनात्पदार्थेन सह व्यापारस्य न कदापि संबन्धः सिद्ध्येत् । अथ व्यापारान्तरमन्तरेणैव पदार्थो व्यापारमुपकरोतीति स्यात्तदा कार्यमपि व्यापारवद्व्यापाररहित एव सत्तामात्रेण किं नोपकुर्वीत येन व्यापारोऽर्थान्तरभूतः कल्प्यते । नहि तस्य कार्येऽपि सत्तामात्रेणोपयोगं व्रजतः कश्चित्प्रतिरोद्धाऽस्ति । तस्मान्नार्थान्तरभूतो व्यापारो युक्तः । अथानर्थान्तरभूत इति पक्षस्तदा सिद्धं सत्चैव व्यापृतिरिति । पदार्थस्वभावस्यैव सत्ताशब्दवाच्यत्वात् । ततश्च न सिद्ध्यति जन्मातिरेकित्वं व्यापारस्य ॥ ५२७ ॥
अपि च । यथा बुद्धिरर्थप्रतिच्छित्तौ जायमानैव व्यापाररहितापि सत्तामात्रेण व्याप्रियते तथा सर्वेषामपि भावानां हेतुत्वमुत्तरकालभाविव्यापारमन्तरेण भविष्य - तीत्येतद्दर्शयति-बुद्धेरित्यादि ।
बुद्धेर्यथा च जन्मैव प्रमाणत्वं निरुध्यते ।
तथैव सर्वभावेषु तद्धेतुत्वं न किं मतम् ॥ ५२८ ॥
I
न हि बुद्धेर्जन्मातिरेकी व्यापारोऽस्ति । तथाहि — “सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष” मित्यत्र सूत्रे जन्मग्रहणस्य प्रयोजनं वर्णयता कुमारिलेनोक्तम्, "बुद्धिजन्मेति च प्राह जायमानप्रमाणताम् । व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा माभूदिति जन्म विवक्ष्यत” इति । तद्धेतुत्वमिति । तत्कारणजन्म हेतुर्येषां ते तथोक्ताः । तद्भावस्तत्त्वम् ।। ५२८ ।।
स्यादेतद्बुद्धेर्व्यापारो भावो युक्तो न हि सोत्तरकालमवतिष्ठते क्षणिकत्वादित्याह - क्षणिका हीत्यादि ।