________________
१७८
तत्त्वसहः । मात्रगतान्वयव्यतिरेकानुविधायित्वमेव कार्याणां सिद्धं न तु व्यापारगतान्वयाधनुविधायित्वमिति दर्शितं भवति ॥ ५२३ ॥
स्वादेतद्यद्यपि व्यापारगतान्वयाद्यनुविधानं कार्यस्य न सिद्धम् , तथापि तस्य कारणभावो भविष्यतीत्याह-अदृष्टशक्तरित्यादि ।
अदृष्टशक्तेर्हेतुले कल्प्यमानेऽपि नेष्यते ।
किमन्यस्यापि हेतुत्वं विशेषो वाऽस्य कस्ततः ॥५२४ ॥ एवं हि व्यापारमपि हेतुं प्रकल्प्यापरोऽपि कल्पनीयः स्यात् । अदृष्टशक्तित्वेन विशेषाभावात् , ततश्चानवस्था स्यात् । अथान्यो न कल्पते निबन्धनाभावात्तदा व्यापारस्यापि कल्पना माभूत्तत्रापि निबन्धनाभावस्य तुल्यत्वात् । किंच योऽप्यसौ व्यापारा कार्य जनयति स किं व्यापारान्तरसमावेशादाहोखित्सत्तामात्रेण, यदि व्यापारान्तरसमावेशात्तदा व्यापारान्तरस्यैव कारणत्वं स्थान व्यापारस्य, तस्यापि व्यापाराम्तरस्य कारणत्वे तुल्यः पर्यनुयोगः । तस्यापि हि यदि व्यापारान्तरसमावेशात्कारणभावः कल्प्येत तदाऽनवस्था स्यात् ॥ ५२४ ॥
अथ सत्तामात्रेणेति पक्षस्तदा पदार्थोऽपि व्यापारवत्सत्तामात्रेणैव कार्य जनयि- . व्यतीति व्या व्यापारकल्पनेति दर्शयति--अन्येन चेत्यादि ।
अन्येन च बिना हेतुर्यथा व्यापार इष्यते।।
कार्यस्य वा भवेत्तद्वत्किमन्येऽपि न हेतवः॥ ५२५॥ यथैव हि व्यापारोऽन्येन व्यापारान्तरेण विनाऽपि कार्येऽङ्कुरादिके हेतुरिष्यते, तद्वदन्येऽपि भावा विलक्षणव्यापारशून्या एव हेतवः किं नेष्यन्ते ॥ ५२५ ॥
अथापि स्यान व्यापारः कार्य साक्षादुपकरोति । किं तर्हि भावमेव व्यापारवन्तमित्याह-अथवा भाव इत्यादि ।
................
....
........
..
....................
footbdo......
.................
................
................ ॥ ५२६ ॥ हेतुरिष्यत इति प्रकृतेन संबन्धः । तवापि हि व्यापारवति हेतुरसौ भवन्व्यापारान्तरसमावेशरहित एव भवतीति स एव दृष्टान्तो भविष्यतीति भावः ॥ ५२६ ॥
नचापि सत्ताव्यतिरेकेण व्यापारः पदार्थस्यास्ति । उपलब्धिलक्षणप्राप्तस्यानुपलधेरिति दर्शयति-दृश्यत्वाभिमतमित्यादि ।