________________
१७७
पलिकासमेतः। जन्मातिरिक्तकालेन व्यापारेणात्र किं फलम् ।
सत्तैव व्याप्रतिस्तस्यां सत्यां कार्योदयो यतः ॥ ५२० ॥ कारणसभासमनन्तरमेव कार्यस्य निष्पन्नत्वादकिंचित्कर एव कार्यस्य जन्मोत्तरकालभावी व्यापारः कार्ये । तथाहि-व्यापारो नाम कारणस्य क उच्यते । यदनन्तरमेव कार्यमुदयमासादयति कारणसत्तानन्तरमेव च कार्यमुद्भवतीति सत्तैव व्यापारशब्दवाच्याऽस्तु किं जन्मातिरेकिणा व्यापारेण कल्पितेन ॥ ५२० ॥ ___ यद्येवमसति भावानां व्यापारे कथमिदमधीयते कार्यस्य कारणेऽपेक्षा कारणस्य च कार्ये व्यापार इत्याह-य आनन्तर्येत्यादि ।
य आनन्तर्यनियमः सैवापेक्षाभिधीयते ।
कार्योदये सदा भावो व्यापारः कारणस्य च ॥ ५२१ ॥ इदमेव हि कार्यस्य कारणेऽपेक्षा यत्तदनन्तरभावित्वम् , कारणस्यापि कार्येऽयमेव व्यापारो यत्कार्योदयकाले सदा सन्निहितत्वम् ॥ ५२१ ॥
अपि च व्यापारस्य व्यापारवतो वा भावस्य कार्य प्रति हेतुभावस्तद्भावमावित्वादेव भवता ग्रहीतव्यः, न ह्यन्वयव्यतिरेकाभ्यामन्यः कार्यकारणभावाधिगमेऽभ्युपायोऽस्ति, ततश्चैवं सति वस्तुमात्रस्यापि किमिति कारणभावो न गृह्यते, नहि कार्यस्य वस्तुमात्रगतान्वयव्यतिरेकानुविधायित्वं न प्रसिद्धम् , अतस्तदेव वस्तुमात्रं वरं कारणमस्तु यद्गतान्वयव्यतिरेकानुविधायित्वं कार्यस्य सिद्धमित्येतदर्शयति तद्भावे. स्यादि।
तद्भावभावितामात्राद्व्यापारोप्यवकल्पितः।
हेतुत्वमेति तद्वान्वा तदेवास्तु ततो वरम् ॥ ५२२॥ अवकल्पित इति । भवद्भिर्योऽन्य उभयानुभयरूपो वा व्यापारः परिकल्पित इत्यर्थः । तद्वानिति व्यापारवान् । तद्भावितामात्राद्धेतुत्वमेतीति प्रकृतेन संबन्धः । तदेवेति । विलक्षणव्यापाररहितं वस्तुमात्रं हेतुरस्त्वित्यर्थः ॥ ५२२ ॥
कस्तत्रातिशयो येन वरमित्युच्यत इत्याह-भाव इत्यादि । . भावे सति हि दृश्यन्ते बीजादेवाङरोदयाः ।
न तु व्यापारसद्भावे भवत्किञ्चित्समीक्ष्यते ॥ ५२३ ॥ . भावे-भावमात्रे, बीजादौ व्यापारान्तरसमावेशशून्ये सतीत्यर्थः । एतेन भाव