________________
तस्वसहः।
सहभूतं हि कार्य जनयन्हेतुरनुत्पन्नो वा जनयेदुत्पन्नो वा । न तावदनुत्पन्ना, बस कार्योत्पत्तेः प्रागसत्त्वात् । असतश्चाशेषसामर्थ्यशून्यत्वात् । यदा तर्युत्पन्नस्तदा समर्थत्वाजनयिष्यतीति चेदाह-सामर्थ्य कार्यसंभवादिति । यदा हि तस्योत्पभावस्थायां सामर्थ्य तदा कार्यमपि तत्स्वभाववदेवोत्पन्नमिति कास्य सामर्थ्यमुपयोगमभुवीत । तस्मादनुमानप्रमाणविरुद्धः कार्यकारणयोगपद्याभ्युपगमः ॥ ५१५ ॥
ननु कार्यकारणभावो हि कर्मकर्तृभावः स च भिन्नकालो विरुध्यते । न हि घटकुलालयोरयोगपद्ये सति कर्मकर्तृभावो दृष्ट इत्याह-नहीत्यादि ।
न हि तत्कार्यमात्मीयं संदंशेनेव कारणम् । गृहीत्वा जनयत्येतद्योगपचं यतो भवेत् ॥ ५१६ ॥ नापि गाढं समालिङ्गय प्रकृति जायते फलम् ।
कामीव दयिता येन सकृद्रावस्तयोभवेत् ॥५१७ ॥ यदि हि संदंशाहणन्यायेन कारणं कार्योत्पत्तौ व्याप्रियेत, कार्य वा वनितोपगृहनवत्खकारणाऽऽश्लेषात्खजन्मनि व्यापार प्रतिपद्येत, तदा सह भाविता नियमेन सात् । यावता निर्व्यापारमेवेदं विश्वं न हि परमार्थतः कश्चित्कर्ता कर्म वास्यन्यत्र धर्मसङ्केतादिति समुदायार्थः । प्रकृतिमिति । कारणम् ॥ ५१६ ॥ ५१७ ॥
यद्येवं यदि निर्व्यापारमेव कार्य कारणं वा । तत्कथं भवन्ति वक्तारो धूमममिजनयति धूमोऽनिमाश्रित्योत्पद्यत इत्याह-नियमादित्यादि ।
नियमादात्महेतूत्थात्प्रथमक्षणभाविनः। यद्यतोऽनन्तरं जातं द्वितीयक्षणसन्निधिः ॥ ५१८॥ तत्तजनयतीत्याहुरव्यापारेऽपि वस्तुनि ।
विवक्षामात्रसंभूतसङ्केतानुविधायिनः ॥ ५१९ ॥ खहेतुप्रत्ययसमुत्थापितात्कारणस्य शक्तिप्रतिनियमाद्धेतोर्यत्कार्य यतः क्षणप्रथमभाविनः कारणाज्जातं किंचिद्विशिष्टम् , द्वितीये क्षणे सन्निधिः सद्भावो यस्येति विमहः, तत्कारणं तत्कार्य जनयतीत्युच्यते। जनयतीत्युपलक्षणम् । तत्तदाश्रित्योत्पद्यत इत्यपि विज्ञेयम् । के पुनत एवमाहुः । इत्यादि । बहिरर्थनिरपेक्षविवक्षाभाविसदेवानुरूपन्यवहारकारिणो व्यवहर्तार एवमाहुरित्यर्थः ॥ ५१८ ॥ ५१९ ॥
ननु य उत्पद्य व्यापारं नाविशेत् विशेषोत्पादार्थ स कथं हेतुः स्यादित्याहअन्मातिरिकेत्यादि।