________________
पविकासमेतः ।
早
तथाहि प्रथमक्षणभाविकारणतासादितात्मलाभमविनष्टमेव प्रतीत्य द्वितीये क्षणे कार्य प्रजायते । तथ तथा जायमानमविनष्टादेव जायते । प्रथमे क्षणे तत्मावि नष्टत्वात् । कार्यसत्ताकालं च न कारणमनुवर्त्तते क्षणिकतयाऽनवस्थानात् । | सत्यामपि चानुवृत्तौ न तदानीं तस्य कारणत्वम्, निष्पन्ने कार्ये तस्याकिचित्करत्वात् ॥ ५०९ ॥ ५१० ॥
तदेवाकिञ्चित्करत्वं दर्शयति — नचेत्यादि ।
न च जातं पुरस्तेन शक्यं जनयितुं पुनः । अभूतभावरूपत्वाजन्मतो नान्यथा स्थितिः ॥ ५११ ॥
नान्यथा स्थितिरिति । अन्यथा, स्थितिः - नियमो न भवेदिति यावत् । अनवस्था भवेदिति यावत् । यदि हि जातमपि जन्येत, तदा पुनरप्यविशेषात्तस्य जननप्रसङ्गः। ततश्चानवस्था जन्मनां स्यात् । कारणानां च व्यापारानुपरतिः कारणस्यापि जन्यत्वप्रसङ्गो विशेषाभावात् । ततश्चेदं कारणमिदं कार्यमिति व्यवस्था न स्यात् ॥ ५११ ॥ तस्मादित्यादिनोपसंहृत्य स्थितपक्षस्यादुष्टतां दर्शयति ।
तस्मादनष्टात्तद्धेतोः प्रथमक्षणभाविनः । कार्यमुत्पद्यते शक्ताद्वितीयक्षण एव तु ॥ ५९२ ॥ विनष्टा भवेत्कार्य तृतीयादिक्षणे यदि । विपाकहेतोः प्रध्वस्ताद्यथा कार्यं च वक्ष्यते ॥ ५१३ ॥ यौगपद्यप्रसङ्गोऽपि प्रथमे यदि तद्भवेत् । सहभूहेतुवत्तच्च न युक्त्या युज्यते पुनः ॥ ५९४ ॥ विनष्टविकल्पस्त्वनभ्युपगमादेवायुक्तः । तथाहि – यदि तृतीयादिषु क्षणेषु कार्य भवतीत्यभ्युपेतं भवेत् यथा वैभाषिकैरङ्गीकृतमेकोऽतीतः प्रयच्छतीति । तदा विनष्टात्कारणात्कार्योत्पादोऽङ्गीकृतः स्यात् । न चायं पक्षोऽस्माकम् । अयुक्तयुपेतत्वात् । यौगपद्यप्रसङ्गोऽपि कदाचिद्भवेत्, यदि प्रथम एव क्षणे कार्यमिष्यते । यथा तैरेव वैभाषिकैः सहभूर्हेतुरिष्यते । तचैतदयुक्तम् ॥ ५१२ ॥ ५१३ ॥ ५१४ ॥ कस्मादित्याह — असत इत्यादि ।
"
i
असतः प्रागसामर्थ्यात्सामर्थ्य कार्यसंभवात् । कार्यकारणयोः स्पष्टं यौगपद्यं विरुध्यते ॥ ५१५ ॥