________________
तत्त्वसहा .. स्यादेतत्बीजादिष्वप्यन्वयोऽस्त्येव । यथोक्तमुद्योतकारेण-तत्रापि ये बीजा'क्यवास्ते पूर्वव्यूहपरित्यागेन व्यूहान्तरमापद्यन्ते, व्यूहान्तरापत्तौ च पृथिवीधातुरपधातुना संगृहीतमान्तरेण तेजसा पच्यमानो रसद्रव्यं निवर्तयति । स रसः पूर्वाअयवसहितोऽङ्कुरादिभावमापद्यत इति । तत्कथं तत्र सूक्ष्मोऽपि नांशोस्त्रीत्युच्यत इत्याह-क्षित्यादीनामित्यादि ।
क्षित्यादीनामवैशिष्ट्ये बीजाकुरलतादिषु । न भेदो युक्त ऐकात्म्यात्तदा सिद्धा निरन्वया ॥ ५०७॥
तस्मात्कर्मफलादीनां भावाभावप्रसिद्धये । . . कार्यकारणतासिद्धौ यत्तत्कार्य परैरलम् ॥५०८॥ - एतदुक्तं भवति । यदि पृथिव्यादय उत्तरस्मिन्सन्निवेशे वर्तमाना अपरित्यक्ताकनखभावा एव वर्तन्ते, तदा न तेषां पूर्वव्यूहत्यागो व्यूहान्तरापत्तिश्योपपद्यते, तादात्म्यात् । पूर्ववत् । ततश्च बीजाङ्करादीनां परस्परं भेदो न प्राप्नोति । एकस्वभावत्वात् । अथ भेदोऽङ्गीक्रियतेऽङ्कुरादीनां तदा नियमेन प्राक्तनस्वभावपरित्यागे सति मित्यादीनां पूर्वव्यूहत्यागो व्यूहान्तरापत्तिश्चाङ्गीकर्तव्या। अन्यथा भेद एव न स्यादित्युक्तम् । ततश्चापरापरस्खभावानामुत्पत्तेः कुतोऽन्वेतृत्वम् । यतश्चैवं कार्यकारणभावे साधिते सर्व कर्मफलसंबन्धादि घटते, दूषिते च विघटते, तस्मात्कर्मफलादीनां भावसिद्धये कार्यकारणतासिद्धौ यत्नो विधातव्यः । परैः-उत्तमदर्शनानुसारितयोत्कृष्टैबौद्धैरिति यावत् । तेषां चाभावसिद्धये तस्या एव कार्यकारणताया अभावसिद्धौ यत्नः कार्यः परैः-तीथिकैरित्यर्थः । कार्यकारणतासिद्धावित्येतद्विरावर्तनीयम् । एकत्राऽकारप्रश्लेषः कार्यः ॥ ५०७ ॥ ५०८ ॥ __ अत्र यौ नष्टानष्टविकल्पो परेण कृतौ तदुत्सारणेन कार्यकारणभावं तावत्सर्वव्यवस्थामूलं साधयन्नाह-अत्रोच्यत इत्यादि ।
अत्रोच्यते द्वितीये हि क्षणे कार्य प्रजायते । प्रथमे कारणं जातमविनष्टं तदा च तत् ॥५०९॥
क्षणिकत्वातु तत्कार्य क्षणकाले न वर्त्तते । .: वृत्तौ वा विफलं कार्य निर्वृत्तं तद्यतस्तदा ॥५१०॥ अविनष्टादेव कारणात्कार्य भवतीति नः पक्षः, न चैवं योगपधप्रसङ्गः ।