________________
पविकासमेतः। त(यथै?)थैव हि बाटे नियता हेतुफलव्यवस्था तथैवाध्यात्मिके संस्कारराशावियम् , कारणशक्तिनियमात् । कुतश्चिदेवहि शुभाशुभकर्मणः क्षणपरम्परया नियत फलमिष्टमनिष्टं वाऽऽविर्भवति, रूपाउनुभवात्स्मरणम्, विमर्शानिर्णयः, स्थापनाद। न्वेषणम् , अभिवाञ्छतोऽर्थदर्शनम् , ततः कुतूहलविरतिरिति सर्वमविरुद्धम् । न हि कचिदेकपदार्थान्वयित्वेन स्मरणादयो बौद्धस्य प्रसिद्धाः । किं तर्हि ? इदं प्रत्ययमात्रम् । यथोक्तम्-"अस्ति कर्मास्तिफलं कारकस्तु नोपलभ्यते, य इमान् स्कन्धानिक्षिपति, अन्यांश्च स्कन्धानुपादत्ते, अन्यत्र धर्मसङ्केतात् । तत्रायं धर्मसङ्केतः, यदुतास्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यत इति । कर्मफलादीनामित्यादिशब्देन स्मृत्यादिपरिग्रहः । संबन्धस्तु जन्यजनकभावः ॥ ५०४ ॥
यद्येवं कथं तर्हि लोके शास्त्रे च तत्तत्पुद्गलमधिकृत्योच्यते, अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यतीत्याह-कर्तृत्वादीत्यादि ।
कर्तृत्वादिव्यवस्था तु सन्तानैक्यविवक्षया ।
कल्पनारोपितैवेष्टा नाङ्गं सा तत्त्वसंस्थितेः ॥ ५०४ ॥ प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोको लोक आत्मनि तत्त्वान्यत्वासत्त्वादिविचारमवधूय विशिष्टहेतुफलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय स एवाहं करोमीति व्यवहरति, मुक्तये च प्रवर्त्तते । तदभिमानानुरोधेन च भगव. न्तस्तथागताः समुच्छेददृष्टिप्रपाततो विनेयजनरिरक्षयिषया सन्तानकतां दर्शयन्तः कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तुसिद्धिरिति चेदाहनाङ्ग सेत्यादि । न हि तस्वपरीक्षापरामुखमतीनां संवृतिपतितानां बालजनानाममिनिवेशवशेन शक्यं तत्त्वं व्यवस्थापयितुम् , तदमिनिवेशस्य नैरात्म्यक्षणभङ्गविहितप्रमाणबाधितत्वात् ॥ ५०४ ।।
बीजादिषु किलान्वय्यात्मवियोगोऽसिद्ध इति दृष्टान्तासिद्धिं मन्यमानस्य परस्य चोधमाशयन्नाह-अन्वयासंभवे सैवेत्यादि ।
अन्वयासंभवे सैव कार्यकारणता भवेत् । विशिष्टा युज्यते यद्वत्सन्तानान्तरभाविभिः ॥५०५ ॥ ननु बीजाकुरादीनां कार्यकारणतेक्ष्यते ।
नियता तत्र सूक्ष्मोऽपि नांशोऽस्त्यनुगमात्मकः ॥ ५०६ ॥ अन्वयोऽनुगमः कस्यचित्वमावस्येति शेषः ॥ ५०५ ॥५०६॥ ..