________________
१०१
तत्त्वसङ्ग्रहः।
ताविति । बन्धमोक्षौ । अतश्चैकस्याधिकरणस्यात्मनः सिद्धेः सर्वकर्मफलसंवन्धादि पारतरं स्थितम्-शोभनतरमवस्थितमित्यर्थः । यथोक्तदोषाभावात् ॥ ४९९ ॥ . एतेनैवेति ।
एतेनैव प्रकारेण स्मृत्यादीनामसम्भवः ।
एकाधिकरणाभावात्क्षणक्षयिषु वस्तुषु ॥५०॥ एकस्य कर्तुरभावात् । पूर्वोक्तानां स्मृतिनिश्चयस्वयंनिहितप्रत्यनुमार्गणादीनामसम्भवो बोद्धव्यः । तत्रापि मित्राधिकरणत्वे दृष्टादिविरोधप्रसङ्गात् । नहि चैत्रेऽनुभवितरि सन्दिहाने निधातरि वान्छावति च सति मैत्रस्य स्मृतिनिश्चयानुमार्गणकुतूहलवित्यादयः संभवन्ति ॥ ५०० ॥ अत्राभिधीयत इत्यादिना प्रतिविधत्ते ।
अत्राभिधीयते सर्वकार्यकारणतास्थितौ ।
सत्यामव्याहता एते सिध्यन्त्येवं निरात्मसु ॥ ५०१ ॥ सत्यपि हि भावानां नैराम्ये कार्यकारणताप्रभावितेयं कर्मफलसंबन्धादिव्यवस्था सति च कार्यकारणभावे सर्वमविरुद्धमेवेति न किंचित्क्षीयते ॥ ५०१ ॥ __स्यादेतत् स एव कार्यकारणभावप्रतिनियमो नान्तरेणात्मानमुपपद्यत इत्याहयथा हीत्यादि।
यथाहि नियता शक्तिीजादेरडरादिषु । ___ अन्वय्यात्मवियोगेऽपि तथैवाध्यात्मिके स्थितिः ॥ ५०२॥ यथैव हि बीजादेरङ्कुरादिषु नियता शक्तिरन्तरेणाप्यात्मानमधिष्ठातारं तथाऽध्यात्मिकेऽपि वस्तुनि भविष्यति । न हि बीजादिः शरीरवदुपभोगायतनत्वेनात्मनाऽधिष्ठितः। अन्यथा हि नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गादित्येतत्रोपपद्यते । घटादौ किलात्मनिवृत्तौ प्राणादि निवर्तमानं दृष्टमिति व्यतिरेकिता हेतोः सिझेत् । यदि तु घटादेरपि सात्मकत्वं भवेत्तत्कथमयं हेतुर्व्यतिरेकी भवेत् । भन्वय्यात्मवियोगेऽपीति । अन्वयिनः कस्यचित्खभावस्य वियोगेऽपीत्यर्थः ॥५०२॥ का पुनरसी स्थितिरित्याह-पारम्पर्येणेत्यादि ।
पारम्पर्येण साक्षाद्वा कचित्किश्चिद्धि शक्तिमत् । ततः कर्मफलादीनां सम्बन्ध उपपद्यते ॥५०३ ॥