________________
परिकासमेतः। यदि ोको ज्ञाता भवेत्तदा स्यात्प्रतिसन्धातृवशाज्ज्ञेयस्य भेदेऽपि सादृश्यकृतं प्रत्यभिज्ञानम् । द्विभेदे तु-द्वयोतिज्ञेययोर्भेदो द्विभेदः, तस्मिन्सत्यनिबन्धनमेव प्रत्यभिज्ञानम् । अपि च यदि न कश्चिदेकः प्रतिसन्धाता पुरुषो भवेत्तदा यदेतन्मातुलुङ्गफलादिरूपे दृष्टे तद्रूपाविनाभाविषु रसादिषु स्मरणपूर्वमभिलषणं परिभोगाय च प्रवृत्तिस्तत्कथं भवेत् । न ह्यन्येन दृष्टेऽन्यस्याभिलाषादिर्भवेत् ॥ ४९४ ॥ ॥४९५॥ बन्धमोक्षावपि न प्राप्नुत इति दर्शयन्नाह-रागादीत्यादि ।
रागादिनिगडैद्धः क्षणोऽन्यो भववारके। ___ अबद्धो मुच्यते चान्य इतीदं नाववुध्यते ॥ ४९६ ॥ अन्यो हि क्षणो रागादिमिर्बद्धोऽन्यस्तु मुच्यत इत्येतनावबुध्यते-न संभाव्यत इति यावत् । भववारक इति । भवः संसारः, स एव वारकम् बन्धनागारम् ॥ ४९६॥ प्रयत्नश्च मोक्षार्थों व्यर्थो मोक्षाभावादिति दर्शयन्नाह-मोक्षो नैव हीत्यादि । -मोक्षो नैव हि बद्धस्य कदाचिदपि संभवी।
एकान्तनाशतस्तेन व्यर्थो मुत्यर्थिनां क्षणः ॥ ४९७ ॥ नन्वबद्धस्यैव मोक्षो भविष्यति, तत्कोऽत्र विरोध इत्याह-मोक्षमित्यादि ।
मोक्षमासादयन्दृष्टो बद्धः स निगडादिभिः ।
अबद्धो मुक्तिमेतीति दृष्टव्याहतमीदृशम् ॥ ४९८ ॥ य एव हि बद्धः स एव मुच्यत इति लोके प्रतीतं दृष्टं च । अबद्धस्य तु मोक्षप्रतिज्ञानं लोकप्रतीत्या प्रत्यक्षेण च बाध्यत इति प्रत्यक्षप्रतीतिविरोधः प्रतिज्ञाया इति भावः ॥ ४९८॥ भनुमानबाधामप्याह-एकाधिकरणावित्यादि ।
एकाधिकरणावेतो बन्धमोक्षौ तथा स्थितेः।
लौकिकाविव तौ तेन सर्व चारुतरं स्थितम् ॥ ४९९ ॥ प्रयोगः -यौ बन्धमोक्षौ तावेकाधिकरणौ, यथा लौकिको बन्धमोक्षौ, बन्धमोक्षौ च विवादास्पदीभूतावेतावनुशयतद्विसंयोगलक्षणौ बन्धमोक्षाविति स्वभावहेतुः । तथा स्थितेरिति । बन्धमोक्षात्मना स्थितेः, बन्धमोक्षरूपत्वादित्यर्थः ।