________________
तत्त्वसत्रहः।
प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभावः क्षणिकत्वे च भावानां स्वज्ञानकाले. ऽनवस्थानादप्रत्यक्षतैव । समानकालं कार्यकारणभावानुपपत्तेः । ततश्च प्रत्यक्षानुपलम्मयोरभाव एव । अनन्यसंसृष्टवस्तूपलम्भात्मरूपत्वेनानुपलम्भस्यापि प्रत्यक्षविशे. षात्मत्वात् । अतः पदार्थोपलम्भाभावे तस्याप्ययोग एवेति कथं प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः स्यात् ॥ ४९० ॥ ४९१ ॥ __ भवतुः नामोपलम्भो वस्तुनस्तथाऽपि पूर्वोत्तरयोः क्षणयोः प्रतिसन्धातुरेकस्य कस्यचिदभावात्संबन्धो न सिद्ध्यतीति दर्शयन्नाह को वेत्यादि ।
को वा व्यवस्थितः कर्ता संधत्ते क्रमवद्गतिम् ।
'अस्य दृष्टाविदं दृष्टं नास्यादृष्टौ तु लक्ष्यते ॥ ४९२ ॥ । गतिरुपलब्धिः । क्रमवती चासौ गतिश्चेति क्रमवद्गतिः । तां कः प्रतिसंधत्तेघटयति । नैव कश्चित् । यदि हि कश्चिदस्यामेरुपलम्भादिदं धूमाधुपलब्धमस्यानुपलब्धौ नोपलभ्यत इत्येवं क्रमवतीं गतिमेककर्तृत्वेन प्रतिसंदधीत, तदा स्यात्कार्यकारणभावसिद्धिः, स च नास्ति प्रतिसन्धाता त्वन्मतेनेति न कार्यकारणभावः सिद्ध्ये दित्यर्थः ॥ ४९२ ॥
इदानीं प्रत्यभिज्ञानानुपपत्तिं दर्शयन्नाह-क्षणभनिष्वित्यादि । ... क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटा।
न ह्यन्यनरदृष्टोऽर्थः प्रत्यभिज्ञायते परैः ॥ ४९३ ॥ य एव मया पूर्व दृष्टोऽर्थः स एवायमेतर्हि दृश्यत इत्येवं पूर्वोत्तरयोर्दर्शनयोरेकविषयतया एकज्ञातृतया च यद्धटनं तत्प्रत्यभिज्ञानम् । तच्च सर्वभावानां क्षणभङ्गित्वे सति नोपपद्यते । ज्ञातुर्ज्ञायमानस्य कस्यचिदेकस्याभावात् । न हि देवदत्तेन दृष्टमर्थ विष्णुमित्रः प्रत्यभिजानीते । अन्यतरग्रहणमुपलक्षणम् । नाप्यन्योऽर्थः प्रत्यभिज्ञायत इत्यपि द्रष्टव्यम् ॥ ४९३ ॥
ननु लूनपुनर्जातकेशनखादिष्विव भेदेऽपि सादृश्यात्प्रत्यभिज्ञानं भविष्यतीयेतड़ाशल्याह-सादृश्यादित्यादि।
सादृश्यात्प्रत्यभिज्ञानं भिन्ने केशादिके भवेत् । ज्ञातुरेकस्य सद्भावाद्विभेदे त्वनिबन्धनम् ॥ ४९४ ॥ प्रतिसन्धानकारी च योकोऽर्थों न विद्यते । रूपे दृष्टेभिलाषादिस्तत्कथं स्याद्रसादिषु । ४९५ ॥