________________
परिकासमेतः। धणसानन्तरं समानजातीयरूपक्षणवत्तत्कलापान्तर्गत एव गन्धादिर्जायत इति सोऽपि तत्कार्य स्यात् । न चासौ सत्यप्यानन्तर्ये तत्कार्यमिष्यते । न हि भौतिकानामन्योन्यं हेतुफलभावोऽस्ति, यथा भूतानाम् , मिन्नसन्तानत्वादिति परो मन्यते * तथा रूपान्तराण्यपीति, समानजातीयरूपक्षणान्तराणि नैव रूपस्यानन्तर्यमात्रेण तत्कार्यतया गृहीतव्यानि, मा भूदतिप्रसङ्ग इति भावः ॥ ४८६ ॥
तदेवमानन्तर्यमानं कारणभावव्यवस्थानिबन्धनं न युक्तमिति प्रतिपाद्य स्वपक्षमुपसंहारेण दर्शयति-तस्मादित्यादि ।
तस्मात्माकार्यनिष्पत्तेापारो यस्य दृश्यते ।
तदेव कारणं तस्य न वानन्तर्यमात्रकम् ॥ ४८७ ॥ न त्वानन्तर्यमात्रकमिति । कार्यकारणव्यवस्थानिबन्धनमिति शेषः ॥ ४८७ ॥ यथोक्तमेवार्थ संक्षिप्य दर्शयन्नाह-संक्षेपोऽयमित्यादि ।
संक्षेपोऽयं विनष्टाचेत्कारणात्कार्यसम्भवः । प्रध्वस्तस्यानुपाख्यत्वान्निष्कारणमिदं भवेत् ॥ ४८८ ॥ अविनष्टाच तज्जातावनेकक्षणसंभवात् ।
क्षणिकत्वं न भावानां व्याहन्येत सदा कथम् ॥ ४८९ ॥ अत्र द्वयी कल्पना । विनष्टाद्वा कारणात्कार्य भवेदविनष्टाद्वा । नष्टानष्टविनिर्मु. कस्य वस्तुनोऽभावात् । तत्र न तावदायः पक्षः, नष्टस्यासत्त्वेन तत उत्पादाभ्युपगमे कार्यस्य निर्हेतुकत्वप्रसङ्गात् । ततश्च नित्यं सत्त्वादियुज्यते । नापि द्वितीयोऽनेकक्षणावस्थायित्वेन भावानां क्षणिकत्वहानिप्रसङ्गात् । न कथं व्याहन्येतेति । व्याहन्यत एवेत्यर्थः । तथा हि भावः प्रथमं तावदुत्पद्यते, ततो व्याप्रियते, ततः कार्यमुत्पाद्य पश्चाद्विनश्यतीत्येवमेकस्यैव वस्तुनोऽनेकस्मिन्क्षणे सन्निधानमिति क्षणिकत्वव्याहतिः स्यात् ॥ ४८८ ॥ ४८९ ॥
एवं कार्यकारणभावानुपपत्ति प्रतिपाद्य तदधिगन्तृप्रमाणानुपपत्तिं दर्शयन्नाहक्षणस्थायीत्यादि ।
क्षणस्थायी घटादिश्नोपलभ्येत चक्षुषा । न हि नष्टाः प्रतीयन्ते चिरातीतपदार्थवत् ॥४९० ॥ कार्यकारणभावोऽपि प्रत्यक्षानुपलम्भतः। ते पूर्ति(नैवैति)सिद्धिं भावानां खभावानुपलम्भनात् ४९१ २२