________________
१६८
तत्त्वसङ्ग्रहः । नाऽनागत इत्यादेर्यथाक्रमं समर्थनमाह-न हलब्धात्मकमियादि
न बलब्धात्मकं वस्तु पराङ्गत्वाय कल्पते । न विनष्टं नच स्थानं तस्य कार्यकृतिक्षमम् ॥ ४८३ ॥ पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये।
पश्चात्तस्यानिमित्तत्वादुत्पत्तिर्नोपपद्यते ॥ ४८४ ॥ अनागतं हि नामोच्यते यदलब्धात्मतत्त्वम् , यच्चालब्धात्मतत्त्वं तदसत्, यच्चासतदशेषसामर्थ्यशून्यम् , यच्चाशेषसामर्थ्यरहितं तत्कथं पराङ्गत्वाय कल्पते-परं प्रति हेतुभावं प्रतिपद्यत इत्यर्थः । समर्थस्यैव हेतुभावसंप्रतिपत्तेः । एवं विनष्टमपि सर्वसामर्थ्यशून्यत्वान्न पराङ्गत्वाय कल्पत इति संबन्धः। न चापि वर्तमानस्य स्थानमस्ति, यत्कार्यकृती-कार्यकरणे क्षमं भवेत् । किंच-यदि पूर्वकक्षणो निर. न्वयं विनश्यतीति कल्प्यते तदा पाश्चात्त्यस्य क्षणस्य निमित्ताभावादुत्पचिर्न प्राप्नोति ॥ ४८३ ॥ ४८४ ॥
स्थादेतद्यथा तुलान्तयोर्नामोन्नामौ समं भवतस्तद्वद्धेतुफलयोन शोत्पादाविष्टावतो वर्तमानादविनष्टादेव कार्योत्पत्तेरिष्टत्वान्नानिमित्ता तस्योत्पत्तिर्मविष्यतीत्याह-नाशोत्पादसमत्वेऽपीत्यादि।
नाशोत्पादसमत्वेऽपि नैवापेक्षा परस्परम् ।
न कार्यकारणत्वे स्तस्तव्यापाराननुग्रहात् ॥ ४८५॥ नाशोत्पादयोः समत्वेऽपि कल्प्यमाने न नाशोत्पादयोस्तद्वतोर्वा कार्यकारणत्वे स्तः -संभवतः, तयोः परस्परानपेक्षत्वात् । कथमनपेक्षत्वमित्याह-तब्यापाराननुग्रहादिति । तस्य-नाशस्य तद्वतो वा व्यापारेण कार्यस्याननुमहात्-अननुगृहीतत्वादित्यर्थः । नाशस्य हि नीरूपत्वाव्यापाराभावः, हेत्वभिमतस्यापि वस्तुनः कार्यसताकाले समिधानाभावाव्यापाराभावः ॥ ४८५ ॥
स्यादेतदन्तरेणापि व्यापारमानन्तर्यमात्रेण हेतुफलभावो भविष्यतीत्याह-जायमानवेत्यादि ।
जायमानश्च गन्धादिर्घटरूपे विनश्यति ।
तत्कार्य नेष्यते यद्वत्तथा रूपान्तराण्यपि ॥ ४८६ ॥ यदि यदनन्तरं यजायते तत्तस्य कार्यमिति स्यात्तदा घटादिसनिवेशिनो रूप