________________
पलिकासमेतः। यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः। .. तेन नैव कृतं कर्म तस्य पूर्वमसंभवात् ॥ ४७८ ॥
कर्मतत्फलयोरेवमेककर्बपरिग्रहात् । । कृतनाशाकृतप्राप्सिरासक्ताऽतिविरोधिनी ॥ ४७९ ॥
नैवासावनुवर्तत इति । तस्योत्पादानन्तरमेव निरुद्धत्वात् । एकक-परिग्रहादिति । एकेन का तयोः कर्मफलयोरपरिगृहीतत्वादित्यर्थः । कर्तुः फलेनानमिसंबन्धास्कृतनाशः, अकर्तुश्च फलेन योगादकृताभ्यागमः। अतिविरोधिनीति । लोकशात्रयोरेवमदर्शनादिति भावः ॥ ४७७ ॥ ४७८ ॥ ४७९॥
एवं तावत्प्रवृत्तिमभ्युपगम्य कृतनाशाकृताभ्यागमप्रसङ्ग उक्तः। इदानी प्रवृत्तिखे न संभवतीति कुमारिलमतोपन्यासेन दर्शयति नैरात्म्येत्यादि ।
नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते । मद्विनाशात्फलं न स्यान्मत्तोन्यस्यापि वा भवेत् ॥४८॥ इति नैव प्रवर्तेत प्रेक्षावान्फललिप्सया।
शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितम् ॥ ४८१ ॥ क्षणिकत्वाभ्युपगमे हि सर्वभावानां नैरात्म्यमेवाभ्युपगतं भवेत् । हेतुपरतवतया सर्वस्यास्वतनत्वात् । तस्मिन्सति प्रेक्षावान् क्रियाप्रवृत्तेः पूर्वमेवावबुध्यते-अवधारयति । किं तदित्याह-मद्विनाशादित्यादि । मम विनाशादूर्ध्व फलं मम न स्यात् , फलप्रसवकाले ममाभावात् । अथापि फलं भवेत् , तदा मत्तोऽन्यस्य क्षणान्तरस्य स्यादिति ज्ञात्वा प्रवृत्तिरेव प्रेक्षावतो न संभवति, किं पुनः प्रवृत्तिपूर्वककर्मजनितं फलं भविष्यति । तस्य दूरत एवासंभाव्यमानत्वेनावस्थितत्वात् ॥ ४८० ॥ ॥४८१॥
एवं कर्मफलसंबन्धो नोपपद्यत इति प्रतिपादितम् । इदानीं कार्यकारणभावानुपपत्ति कुमारिलमतेनैव प्रतिपादयन्नाह-नाऽनागत इत्यादि ।
नाऽनागतो न वाऽतीतो भावः कार्यक्रियाक्षमः ।
वर्तमानोऽपि तावन्तं कालं नैवावतिष्ठते ॥ ४८२ ॥ तावन्तमिति । उत्पद्य यावता कालेन कार्य निवर्त्तयति तावन्तं कालं नावतिष्ठते क्षणिकत्वादिति भावः ॥ ४८२ ॥