________________
तत्त्वसार। नकालं व कार्यकारणभावानुपपत्तेः । यथोक्तम्-"असतः प्रागसामर्थ्यात्पबावनुपयोगतः । प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सहे"ति ॥ ४६८ ॥ __ यदेत्यादिना पृथिवीसंबन्धित्वेनानुपलभ्यमानत्वे सतीति सविशेषणेऽपि हेतावनैकान्तिकतेति दर्शयति । ___ यदा सूर्यादिशब्दाश्च विवक्षामात्रभाविनः ।
दीपादौ विनिवेश्यन्ते तज्ज्ञानैर्व्यभिचारिता ॥ ४६९ ॥ द्वितीयेऽपि हेतुकदम्बके जात्यादेर्धर्मिणोः सत्त्वादेव क्षणभङ्गित्वस्यानिष्टत्वात्तत्र तदभावसाधने सिद्धसाध्यतेति दर्शयति-जात्यादेरित्यादि ।
जात्यादेनिःखभावत्वान्नैवेष्टा क्षणभङ्गिता।
तदभावप्रसिद्ध्यर्थं निर्दिष्टं साधनं वृथा ॥ ४७० ॥ आदिशब्देन तदाश्रयाणां रूपघटादीनां तद्विषयाणां च प्रत्ययानां ग्रहणम् । एषामपि हि यथोक्तविशेषणविशिष्टानामसत्त्वमेव, तस्मात्तेषु तस्याः क्षणभङ्गिताया अभावसिद्ध्यर्थ यदुक्तं साधनं तद्वृथा, तत्र विवादाभावादिति भावः । अत्रापि सूक्ष्मेक्षिका न कृता । यदि सा क्रियते तदा बहुतरमत्र दोषजालमवतरति । तथाहि यदेतत्सदसदन्यतरत्वं साधनमुक्तं तत्साध्यधर्मिणि दृष्टान्तधर्मिणि चासिद्धम् , विकल्पविषयवाद. न्यतरशब्दस्य, विकल्पश्चानेकपदार्थसंभवे सति भवति, नैकस्मिन् । न च साध्यघमिणि द्वयोः सदसत्त्वयोः संभवोऽस्ति । तस्य वस्तुरूपत्वेन सत्त्वस्यैव संभवात् । नापि दृष्टान्तर्मिणि द्वयसम्भवः । तस्यावस्तुत्वेनासस्वस्यैव संभवात् । हेतुश्च व्यर्थविशेषणः । तथाहि-शब्दामिधेयत्वादित्येवमपि तावदत्र प्रयोगो न युक्तोऽभिधेयत्ववचनादेव शब्दस्य सिद्धेः । यत्पुनः समानजातीयादिपदैविशेषणं तदतिपेलवमेव । एवमन्यदपि हेतुविशेषणमनर्थकमेवेति ग्रहीतव्यम् । सर्वे चामी हेतवोऽनैकान्तिकाः । साध्यविपर्ययेऽमीषां बाधकप्रमाणानुपदर्शनात् । एतञ्च पश्चादभिधास्यत एव ॥४७०॥ यबोकं विवादविषया ये चेत्यादि, तत्राह-समानेत्यादि ।
समानशब्दवाच्यत्वं दीपादिप्रत्ययेष्वपि ।
वर्तते व्यभिचार्येष हेतुस्तेन भवत्यतः ॥ ४७१॥ · दीपज्ञानमिति दीपादिप्रत्ययेषु भिन्नविषयेष्वपि समानशब्दप्रवृत्तिदर्शनादतस्तेन दीपादिप्रत्ययविषयेण शब्दवाच्यत्वेनैष समानशब्दवाच्यत्वादिति हेतुळमिचारी।