________________
पविकासमेतः। शमानोति स उपलभ्यते नेतर इति । तदेव प्रमाणकदम्बकं दर्शयति-रूपत्वाचाश्रयाः सर्वे इत्यादि।
रूपत्वाचाश्रयाः सर्वे ये च तेषां समाश्रयाः। ये च तद्विषयाः केचिजायन्ते प्रत्ययास्तथा ॥ ४६४ ॥ उत्पादानन्तरं ध्वंसमाजो नैव भवन्ति ते ।
प्रमेयत्वाभिधेयवहेतुतः खारविन्दवत् ॥ ४६५ ॥ प्रमेयत्वाभिधेयत्वग्रहणमुपलक्षणम् । तदन्येऽपि हेतवो द्रष्टव्याः । खे-नभसि, अरविन्दम् , आकाशकमलमिति यावत् ॥ ४६४ ॥ ४६५ ॥
उद्योतकरस्त्वाह-विप्रतिपन्ना अयु(ग)पत्कालाः प्रत्यया एकविषयाः, अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सति समानशब्दवाच्यत्वात् , वर्तमानलक्षणानेकपुरुषप्रत्ययवत् । तत्र व्युत्थातुम्-अन्यथाभवितुं बाधकप्रमाणवशात् शीलमस्येति व्युत्थायि न व्युत्थायि अव्युत्थायि, तेषां घटादिप्रत्ययानां सामानाधिकरण्यं तत्प्रत्ययसामानाधिकरण्यम् , अव्युत्थायि च तत् तत्प्रत्ययसामानाधिकरण्यं चेति तथोक्तम् । अबाधितसामानाधिकरण्ये सतीत्यर्थः । इदं च विशेषणं प्रदीपादिप्रत्ययैर्व्यभिचारपरिहाराथम् । समानशब्दवाच्यत्वं चैत्रज्ञानं चैत्रज्ञानमित्यादि । तदेतद्दर्शयति-विवादवि: षया इत्यादि ।
विवादविषया ये च प्रत्ययाः क्रमभाविनः । एकार्थविषयास्तेऽपि सर्व इत्यवघोषणा ॥ ४६६ ॥ अबाधैकाश्रयत्वे हि समानोक्तिनिवेशनात् ।
वर्तमाने यथैकस्मिन्क्षणे नेकविधा धियः॥४६७ ॥ अवघोषणेति । प्रतिज्ञा । एकाश्रयत्वम्-सामानाधिकरण्यम् , अबाधम्भविद्यमानबाधं च तदेकाश्रयत्वं चेति विग्रहः ॥ ४६६ ॥ ४६७ ॥ .मत्र प्रतिविधत्ते साध्येनेत्यादि ।
साध्येन विकलं तावदाये हेतौ निदर्शनम् ।
हेतुत्वाद्विषयः सर्वो न हि खज्ञानकालिकः ॥ ४६८॥ आधे हेताविति । तज्ज्ञानत्वामिधानत इत्यत्र । प्रथममपि हि चन्द्रादिज्ञानं सत्का(लका!)लावच्छिन्नचन्द्रादिविषयं न भवति । हेतुभूतस्यैव विषयत्वात् । समा