________________
१६२
तत्त्वसङ्ग्रहः ।. किं तदनुमानमित्याह-विवक्षितेत्यादि ।
विवक्षितार्कचन्द्रादिविषयं यत्प्रवर्तते। ज्ञानं तत्कालसम्बद्धसूर्यादिविषयं परम् ॥ ४६२॥ पार्थिवाविषयत्वे हि तज्ज्ञानस्वाभिधानतः ।
तद्यथा प्रथमं ज्ञानं तत्कालार्कादिगोचरम् ॥ ४६३ ॥ तदुक्तम्-विमत्यधिकरणभावापन्नानि चन्द्रार्कग्रहनक्षत्रादिज्ञानानि विवक्षितचन्द्रार्कग्रहतारकादिविषयं यद्देवदत्तादिविज्ञानं तत्कालावच्छिन्नचन्द्रार्कप्रहनक्षत्रतारकादिविषयाण्येव, पृथिवीसंबन्धित्वेनानुपलभ्यमानत्वे सति चन्द्रार्कप्रहनक्षत्रतारकादिज्ञानशब्दवाच्यत्वात्, प्रथमकालभाविदेवदत्ततारकादिज्ञानवदिति । विवक्षितार्कचन्द्रादिविषयमिति । तैजसद्रव्यविषयम् । पृथिवीसंबन्धित्वेनानुपलभ्यमानत्वे सतीति विशेषणं चित्रादिगतादित्यादिविषयैनियंभिचारपरिहारार्थम् । परमिति । तस्मादन्यत् । अतत्कालमित्यर्थः ॥ ४६२ ॥ ४६३ ॥
इदमपरं तदीयमेव प्रमाणम् । ये रूपत्वादिसामान्याश्रयाः, ये च तदाश्रयाः, तद्विषयाश्च ये प्रत्यक्षानुमानोपमानशाब्दस्मृतिप्रत्यमिज्ञानार्थसिद्धदर्शनारेकविपर्ययानुव्यवसायस्वप्नवनान्तिकाः प्रज्ञानविशेषाः, ते सर्वे खात्मलाभानन्तरप्रध्वंसिनो न भवन्ति, ज्ञेयत्वप्रमेयत्वाभिधेयत्वसदसदन्यतरत्वसदसद्व्यतिरिक्तज्ञेयविषयज्ञानावच्छेचत्वामाझविषयग्रहणाग्राह्यत्वानभिधेयाभिधायकानभिधेयत्वसमानासमानजातीयद्रध्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वेभ्यः, प्रागभावादिवत् । तत्र रूपत्वादिसामान्याश्रया रूपादयः, तेषां च रूपादीनामाश्रयास्तदाश्रयाः, के ते ? घटादयः, सिद्धदर्शनं योगिविज्ञानम् , शेषं पूर्वमेव व्याख्यातम् । सदसदन्यतरत्वं सत्त्वमसत्त्वं वा । सदसद्भ्यां व्यतिरिक्तस्य ज्ञेयस्याभावादेव तद्विषयज्ञानं नास्ति, तस्य चासत्त्वादेव तेनापरिच्छेद्यत्वं सिद्धम् । एवमप्राह्यविषयस्य ग्रहणस्याभावादेव तदप्रायत्वसिद्धिः । तथा न विद्यतेऽभिधेयं यस्यासावनमिधेयो योमिधायकस्तेनानमिधेयत्वमनर्थकत्वादेव सिद्धम् । समानजातीयानि द्रव्याण्यधरदशनादीनि, कृतकत्वादि. सामान्यात् , असमानजातीयान्याकाशादीनि तेषां यौ मिथःसंयोगविभागौ, ताभ्यां जनितो या प्रथमः शब्दस्तस्य परम्परया यः कार्यभूतः श्रुतिपथमवतीर्णस्तेनामिधे. पत्त्वम् । तथासेषामियं प्रक्रिया-प्रथमः किल शब्दः संयोगविभागयोनिस्तस्माच्छब्दान्तराणि कडम्बगोलकन्यायेन प्रादुर्भवन्ति । तत्र यः कर्णशष्लीमध्यमाकायदे