________________
१६१
पलिकासमेतः। गत"मिति । स्यादेतत्-यथा क्षणिकत्वं शब्दादेरव्यतिरिक्तमपि सत्तगृहणे सत्यप्यगृहीतमुच्यते, तद्वदिदमपि भविष्यतीति । तद्युक्तम् । न हि शब्दे धर्मिणि गृहीतेऽपि तव्यतिरेकि क्षणिकत्वमगृहीतमिति व्यवस्थाप्यते । किं ( तर्हि ? ) गृहीतमपि तन्निश्चयोत्पत्तिकारणाभावादनिश्चितमित्यभिधीयते । न झनुभवमात्रादेव निश्चयो भवति । तस्यार्थित्वाभ्याससाद्गुण्यादिसापेक्षत्वात् । न चैवं भवतः संभवति । पूर्वप्रत्यक्षस्यापि व्यवसायात्मकत्वात् । तेन च वस्तुरूपे निश्चीयमाने तदव्यतिरिक्तमिदानीन्तनमस्तित्वं निश्चितमेव । तदनिश्चये वस्तुस्वरूपस्यापि तद्वदेवानिश्चितरूपाव्यतिरेकादनिश्चितत्वप्रसङ्गः । येऽप्याहुः-सन्दिग्धवस्तुनिर्णयनिबन्धनं प्रत्यमिज्ञाने प्रामाण्यमिति तदप्यनेनैव प्रत्युक्तम् । न चाप्यत्र सन्दिग्धवस्तुसद्भावनिर्णयोऽस्ति, सदृशापरापरोत्पत्तावपि केशादिवत्प्रत्यभिज्ञानदर्शनेन सन्देहात् ॥ ४५८ ॥ यञ्चोक्तं विज्ञातोऽपीतरैरर्थ इत्यादि, तत्राह-प्रत्यक्षेण चेत्यादि ।
प्रत्यक्षेण च बाधायामनुमानादिगोचरे।
नानुमानादिमानं स्थाद्वाधातस्तैमिरादिवत् ॥ ४५९ ॥ यस्य त्वत्पुत्रत्वादित्यादिकस्यानुमानादेर्गोचरे विषये प्रत्यक्षेण बाधा संभवेत्तस्य प्रामाण्यमेव नास्ति बाध्यमानविषयत्वेनार्थसंवादाभावात्तैमिरिकादिज्ञानवत् । तेनेतरैविज्ञातोऽप्यर्थः प्रत्यक्षेणान्यथा भवेदिति यदुक्तं तदसङ्गतमेव, असंभवात् ॥ ४५९॥
यश्च प्रत्यक्षस्य ज्येष्ठत्वमुक्तं तदप्यसद्भूतमेवेति दर्शयन्नाह-अर्थसंवादकत्वे चेत्यादि ।
अर्थसंवादकत्वे च समाने द्वेष्यताऽस्य का।
तदभावे तु नैव स्यात्ममाणमनुमादिकम् ॥ ४६० ॥ इदमेव हि प्रमाणानां प्रमाणत्वम् , यदुतार्थप्रमाणसामर्थ्यम् । तश्चेत्सर्वप्रमाणानामभ्युपगम्यते तत्केनास्य प्रत्यक्षस्य ज्येष्ठता भवेत् । अथापि स्यात्-प्रत्यक्षस्यैवार्थसंवादकत्वं नानुमानादेरित्याह-तदभाव इत्यादि । तस्य–अर्थादिसंवादकत्वस्य अभावे सति नैव प्रमाणमनुमानादि स्यात् । अर्थाविसंवादकत्वनिबन्धनत्वा. प्रमाणव्यवहारस्य, तस्य चात्र भावात् ॥ ४६० ॥ नन्वनेनेत्यादिना भाविविक्तोक्तानि प्रमाणान्याशङ्कते ।
नन्वनेनानुमानेन बाध्यते सर्वहेतुषु । व्यासिः सर्वोपसंहारा प्रतिज्ञार्थस्य वा क्षतिः ॥ ४६१ ॥
२१