________________
तस्वसत्रहः।
ननु यथानुमानप्रसिद्धसाप्यर्थव पुत्रादिगतश्यामत्वादेः पुनः कालान्तरेण प्रत्यक्षेण वाध्यमानस्सान्यथात्वं भवति तथाऽत्रापि यदि नाम प्रत्यमिक्षा(न)तो नित्यत्वमर्मस सिद्धम् , तथाऽप्युत्तरकालं तत्कार्येण क्रमिणा क्रमस्पानुमानतः सिद्धेरन्यपात्वं सिद्धमेक, तत्कयं क्षणभङ्गित्वं बाध्यत इत्याशझ्याह-विज्ञातोऽपीयादि ।
विज्ञातोऽपीतरैरर्थः प्रत्यक्षेणान्यथा भवेत् ।
प्रत्यक्षेणावरुद्धे तु नेतरोत्पत्तिसंभवः ॥ ४५५ ॥ इतरैरिति । अनुमानादिमिः । यथा किल श्यामस्तत्पुत्रत्वादृश्यमानतत्पुत्रवदित्यादि । प्रत्यक्षेणान्यथा भवेदिति । प्रत्यक्षेण करणभूतेन, अन्यथा-अनुमानादिप्रमिताकारविपरीतो भवेदित्यर्थः। अवरुद्ध इति । विषयीकृत इत्यर्थः । नेतरोत्पत्तिसंभव इति । प्रत्यक्षादितरस्यानुमानादे व बाधकत्वेनोत्पत्तिः संभवतीत्यर्थः ॥ ४५५ ॥ कस्मादित्याह-को हीत्यादि।
को हि ज्येष्ठप्रमाणेन दृढेनार्थेऽवधारिते। .
दुर्बलैरितरैः पश्चादध्यवस्येद्विपर्ययम् ॥ ४५६ ॥ युक्तं हि यदनुमानप्रसिद्धस्यार्थस्य प्रत्यक्षेणान्यथात्वं क्रियत इति । तस्य सर्वप्रमाणज्येष्ठत्वात् । न तु प्रत्यक्षप्रसिद्धस्यान्यथात्वमनुमानादयः कर्तुमीहन्ते, तेषां दुर्बलत्वात् । दृढेनेति । संशयविपर्ययाभ्यां रहितेन । विपर्ययमिति । अन्यथात्वम् ॥ ४५६ ॥ नन्वित्यादिना प्रतिविधत्ते।
नन्विदानीन्तनास्तित्वं यदि भिन्नं त्वयेष्यते ।
पूर्वभावात्तदा भेदस्त्वयैव प्रतिपादितः ॥ ४५७ ॥ यत्तदिदानीन्तनमस्तित्वं प्रत्यभिज्ञानस्य विषयः, किं तत्पूर्वप्रत्यक्षगृहीतादस्तित्वादिनमाहोवित्तदेव, यदि मिन्नं तदा स्ववचनेनैव भेदस्य प्रतिपावितत्वादभ्युपेतहानिर्भवतो भवेत् । अस्माकं पुनरिष्टसिद्धिः ॥ ४५७ ॥
अनन्यत्वेऽपि सत्वस्य कथं पूर्वधियाऽगतम् ।
तस्थागतो हि वस्त्वेव नोपलब्धं प्रसज्यते ॥ ४५८॥ भयानन्यविति पक्षस्तदा कथं पूर्वधिया तद्गतं येनोच्येत, "न हि पूर्वधिया