________________
१५९
पत्रिकासमेतः। निष्पादितक्रिये चार्थे प्रवृत्तेः मरणादिवत् ।
न प्रमाणमिदं युक्तं करणार्थविहानितः ॥ ४५१॥ यदेव हि प्रमितिक्रियासिद्धौ प्रकृष्टमुपकरणं तदेव साधकतमं कारकं प्रमाणमु। च्यते । यदि च प्रत्यभिज्ञा पूर्वप्रमाणगृहीतार्थविषया स्यात् , तदा निष्पन्नप्रमितिक्रि. येऽर्थे प्रवृत्त्याऽसाधकतमत्वात्कथमिव प्रमाणतामश्नुवीत । अन्यथा हि स्मृतेरपि प्रामाण्यं स्यात् । न चानधिगतप्रमाणभावा सती बाधकत्वाय कल्पते, अतिप्रसङ्गात् । स्यादेतत्-मा भूदस्याः पृथक्प्रामाण्यम् , तथाऽप्यनया पूर्वार्थविषयतया क्षणभङ्गित्वं बाध्यत एवेति । तदसम्यक् । न ह्यस्याः परमार्थतः पूर्वार्थविषयत्वमस्ति मामि(मति?)जल्पत्वात् केवलम(ति)विषयाऽपि सती विभ्रमबलात्पूर्वदृष्टार्थाध्यवसायिनी समुत्पद्यत इत्यध्यवसायवशात्पूर्वदृष्टार्थविपयेत्युच्यते तत्कुतोऽस्मात्प्रत्यमिज्ञानात्प्रकृतिभ्रान्तात्क्षणभङ्गनिराक्रिया सिध्येत् ॥ ४५१ ॥ इदानीन्तनमित्यादिना कुमारिलमतेन गृहीतग्राहित्वस्यासिद्धिमुद्भावयति ।
इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् । तदस्त्यस्य विशेषश्चेत्मरणे यो न विद्यते ॥ ४५२ ॥ पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः।
स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणी ॥ ४५३ ॥ स ह्याह-न हि पूर्वप्रत्यक्षेणार्थस्येदानीन्तनमस्तित्वमधिगतम् , तस्य स एवायमित्येवमाकारोपप्राहेणानुत्पत्तेः । तस्मादस्य प्रत्यभिज्ञानस्य स्मरणादस्ति विशेषः । कथमित्याह--पूर्वेत्यादि । स इति हि पूर्वज्ञानाकारोपग्रहेणैव स्मृतिः प्रवर्तते । प्रत्यभिज्ञा त्वयमित्येवमतिरिक्तमप्यर्थाकारं गृहाति । स्मृतेः सकाशादतिरेकिणीविशिष्टेत्यर्थः । तस्माद्यौ संशयविपर्ययौ तौ बाधित्वा प्रत्यभिज्ञा प्रमाणतां लभते ॥४५२ ॥ ४५३ ॥ कस्मात्तौ बाधत इत्यत्र कारणमाह-ज्ञाते चाविद्यमानत्वादिति ।
ज्ञाते चाविद्यमानत्वाद्यौ संशयविपर्ययौ।
बाधित्वा तो लभेतैव प्रत्यभिज्ञा प्रमाणताम् ॥ ४५४ ॥ ज्ञातेऽर्थे तयोरविद्यमानत्वादहलवह्निशिखाकलापपरिगत इव देशे शीतस्य ॥ ४५४ ॥