________________
१५८
तत्र प्रत्यक्षत्वं तावदसिद्धमस्यास्तथाहि वस्तुत्वलक्षणस्यानन्वयित्वेनाशक्यसमयत्वात् । तद्राहिशानं मनसि जल्पमेव । अवगृहीतसंबन्धस्यार्थस्य शब्देन संयोज्य ग्रहणा (ण ? ) संभवात् । अतोऽवश्यं प्रत्यक्षेण सता स्वलक्षणविषयत्वात्कल्पनापोढेन भवितव्यम् । प्रमाणत्वाचा भ्रान्तेन । ततश्च प्रत्येकं कल्पनापोढमभ्रान्तमिति न्यायानुयातमिदं प्रत्यक्षलक्षणमाचक्षते कुशलाः । नच प्रत्यभिज्ञानं कल्पनापोढम्, स एवायमित्येवमतिजल्पाकारतया संवेद्यमानत्वात् । नाप्यभ्रान्तम्, मिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः ॥ ४४६ ॥ ४४७ ॥
कथमित्याह — पूर्वमित्यादि ।
तत्वसङ्ग्रहः ।
पूर्व संविहिताकारगोचरं चेदिदं भवेत् । जायेत पूर्वमेवेदं तार्थ्यात्पूर्वबुद्धिवत् ॥ ४४८ ॥
यदि हि पूर्वोपलब्धार्थविषयमिदमभविष्यत्तदा पूर्वमेवोदशिष्यत, तद्विषयत्वेनाविकलकारणत्वात् । पूर्वज्ञानवत् तादर्थ्यादिति । स पूर्वसंविदितो भावोऽर्थो विषयोऽस्येति तदर्थम्, तद्भावस्तादर्थ्यम् ॥ ४४८ ॥
"
नचैवमिति प्रसङ्गविपर्ययमाह ।
नचैवं तेन नैवेदं तदर्थग्राहकं मतम् । तज्ज्ञानकाल उत्पादाद्विषयान्तरबुद्धिवत् ॥ ४४९ ॥ अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः । मायागोलकविज्ञानमिव भ्रान्तमिदं स्थितम् ॥ ४५० ॥
प्रयोगाः — यद्यस्मिन्विकलेऽपि सति न भवति, न तत्तद्विषयम्, यथा रूपेऽवि - कलेऽपि सति तत्राभवच्छ्रोत्रविज्ञानम्, भवत्यविकलेऽपि वज्रादौ तद्विज्ञानवेलायां प्रत्यभिज्ञानमिति व्यापकानुपलब्धेः । तदेवं नित्यत्वे सति वज्रादेरनपरापेक्षस्य तद्विषयं प्रत्यभिज्ञानमविकलकारणत्वात्पूर्वमेव भवेत्, नच भवति, तस्मादनित्यत्वमस्य सिद्धम् । ततश्च भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेर्मायागोलकविज्ञानवद्भान्तमिदमित्यविकलमेतत् । अत एवाबाधितविषयत्वमप्यसिद्धम् । यथोक्ताद्भान्तत्वप्रसाधकादेव हेतोर्बाधितविषयत्वात् ॥ ४४९ ।। ४५० ।।
इतश्च गृहीतग्रहणानास्याः प्रामाण्यम्, यथा स्मृतेरिति दर्शयन्नाह - निष्पाद्वितेत्यादि ।