________________
पलिकासमेतः ।
१५७ भवन्ति । यथा-वहयादयः शीतादीनाम् , अपरे न तथाविधाः-नापकर्षहेतवः, तद्यथा त एव वह्नयादयो धूमादीनाम् । तत्र प्रथमोक्तेषु हासहेतुषु कार्यकारणभाबेऽपि सत्यज्ञानतिमिरतिरोधीयमानज्ञानालोको लोको विरुद्धत्वममिमन्यते । अनेकधेति । शीतस्यामिविरुद्धः प्रदीपस्य वायुरालोकोऽन्धकारस्येत्यादिना भेदेन । नतु वस्तूनां परमार्थतः कश्चिद्वाध्यबाधकभावोऽस्ति, सतः सर्वात्मना निष्पत्तेः, स्वभापान्यथात्वस्य कर्तुमशक्यत्वात् , तस्य व्यतिरेकाव्यतिरेकविकल्पे सत्युभयथाऽपि करणासंभवात् । असतोऽप्यवस्तुत्वादेव न किंचित्क्रियते, इत्युभयथाऽप्यकिश्चित्करो विरोधी । अत एवाविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिरित्याचार्येणोतम् । विरोधगतिः-विरोधव्यवसायः, न तु विरोधस्तात्विक इति भावः । अपिशब्दश्वार्थे । मिन्नक्रमश्च । एवेत्यस्यानन्तरं द्रष्टव्यः ॥ ४४१ ॥ ४४२ ॥ ४४३ ।। ननु घेत्यादिना जैमिनीयादिमतेन क्षणभङ्गप्रतिज्ञायाः प्रत्यक्षबाधितत्वमाशङ्कते।
ननु च प्रत्यभिज्ञानं स एवेत्युपजायते । अक्षव्यापारसद्भावे निष्पकम्पमबाधितम् ॥ ४४४ ॥ ततः प्रत्यक्षबाधेयं दुर्वारा सर्वहेतुषु ।।
क्षणभङ्गप्रसिद्ध्यर्थमुपात्तेषु प्रसज्यते ॥ ४४५ ॥ तथाहि स एवायमिति गिरितनुवादिष्वक्षव्यापारानन्तरं प्रत्यभिज्ञानाख्य प्रत्यक्षं प्रमाणं भावानां क्षणभङ्गं निराकुर्वदुदेति । यद्यपि नूनं पुनर्जातनखकेशतृणादिषु प्रत्यभिज्ञानं दृष्टम् । तथापि न वादिविषययोः प्रत्यभिज्ञानयोरप्रामाण्यमबाधितविषयत्वात् । अतएवाह-निष्पकम्पमबाधितमिति । नहि तिमिरोपहतलोचनोपजनितं केशविज्ञानमप्रमाणमुपलब्धमित्येतावता खच्छनेत्रजनितमपि सत्यकेशविषयं चक्षुर्विज्ञानमप्रमाणमिति युक्तं स्वच्छचेतसोऽभिधातुमिति भावः । तत्र निष्षकम्पत्वेनासंशयरूपतामाह । स एवायमथान्य इत्येवंविधस्य संशयस्याभावात् । अबापितमित्यनेनाविपर्यस्तत्वम् ॥ ४४४ ॥ ४४५ ॥ - न खल्वित्यादिना प्रतिविधत्ते ।
म खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते । वस्तुरूपमनिर्देश्यं सामिलापं च तद्यतः ॥ ४४६ ॥ भ्रान्तं च प्रत्यभिज्ञानं प्रत्येकं तद्विलक्षणम् । अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ॥ ४४७ ॥