________________
तत्त्वसङ्ग्रहः। न हि भावानां स्वभावाः पर्यनुयोगमर्हन्ति, तेषां खहेतुप्रत्ययपरम्परासमायातत्वाखभावभेदस्य, यथाऽमेर्दाहकत्वम् , यस्मादेते परापरप्रत्ययोपयोगेन प्रतिक्षणं मिनशक्तयः समुत्पद्यन्ते । अतो यद्यप्येते कुतश्चित्साम्यात्समानरूपाः प्रतीयन्ते तथाऽपि मिन्न एवैषां स्वभावः। तेन किंचिदेव कस्यचित्कारणं न सर्वः सर्वस्खेति यत्किंचिदेतत् । भवन्तीति । जायन्त इत्यर्थः ॥ ४३८॥ यदप्युक्तं विनाशो यद्यहेतुः स्यादिति, तत्राह-सन्तानोच्छेदरूपस्त्वित्यादि ।
सन्तानोच्छेदरूपस्तु विनाशो यो न हेतुमान् । तस्यान्तेऽपि न भावोऽस्ति तथा जन्म तु वार्यते ॥४३९ ॥ विलक्षणकपालादेरुत्पादस्तु सहेतुकः ।
सोऽप्यादी जायते नैव तदा हेतोरसम्भवात् ।। ४४० ।। द्विविधो हि विनाशः सन्तानोच्छेदरूपो विसदृशसन्तानोत्पादलक्षणश्च । तत्र यदि सन्तानोच्छेदरूपं विनाशमधिकृत्योच्यते तद्युक्तम् , नहि तस्यान्तेऽपि भावोऽस्तीति, नीरूपत्वात् , तत्किमुच्यते अन्तेऽपि स कथं भवेदिति । तस्मात्तस्य कदाचिदपि भवनानभ्युपगमादादावन्ते च यद्भावाभावप्रसननं तदसङ्गतमेव । केवलम् , तथा-सदृशक्षणान्तरप्रतिसन्धानेन, जन्म-उत्पादः, तत्र प्रतिषिध्यते । घटादेरुच्छेदो भवति ( इत्यस्य १ ) स एव न भवतीत्यर्थः । न तु तत्र किंचिद्विधीयते । अथ विसदृशक्षणोत्पादलक्षणो द्वितीयो विनाशोऽभिप्रेतस्तस्याहेतुकत्वमसिद्धम् । वस्तुतया तस्य मुद्रादिकारणबलेनोत्पादनाभ्युपगमात् । अतएवासावादौ न जायते, खहेतोर्मुद्रादेस्तदानीमभावात् ॥ ४३९ ॥ ४४० ॥ विरोधव्यवस्थासमर्थनार्थमाह-द्विविध इत्यादि ।
द्विविधाः क्षणिका भावाः केचिद्धासस्य हेतवः । शीतादेरेव वहयाद्या अपरे न तथाविधाः ॥ ४४१॥ अदृष्टतत्वो लोकस्तु विरोधमभिमन्यते। कार्यकारणभावपि प्रथमोक्तेष्वनेकपा ॥ ४४२ ॥ षाध्यबाधकमावस्तु वस्तुनो नैव तात्त्विकः ।
विद्यते तत एवोक्तं विरोधगतिरित्यपि ॥४४३ ॥ केचिद्धि भावाः केषांचिन्मन्दतर(त)मक्षणोत्पत्तिक्रमेण यो हासस्तत्र हेतवो