________________
पलिकासमेतः।
१५५ क्षया एकार्थक्रियाकारित्वमेव, न परस्परोपकारित्वम् । एकस्मिन्क्षणे निर्विभागतया विशेषस्याधातुमशक्यत्वात्। व्यवहितकार्यापेक्षया तु परस्परत उत्तरविशिष्टक्षणोत्पत्तेः, सन्तानापेक्षया परस्परोपकारेण व्यवहितकार्यजनकत्वात्परस्परोपकारित्वलक्षणं सहकारित्वम् । तत्र प्रथमावस्थाभाविनां यद्यपि परस्परतो विशेषो नास्ति, तथापि तेषां सहकारित्वमविरुद्धमेव, एकार्थक्रियाकारित्वात् । नापि ते समनन्तरविशिष्टक्षणोत्पादनं प्रत्यविशिष्टाः, पूर्वकेभ्य एव खहेतुप्रत्ययेभ्यस्तथाविधोत्तरकार्यकलापोत्पादनं प्रति प्रत्येकं समर्थानामुत्पन्नत्वात् । तेषामपि हेतुप्रत्ययानामपरेभ्यः खहेतुप्रत्ययेभ्यः, तेषामप्यपरेभ्य इत्यनादेर्हेतुपरम्पराया इष्टत्वादनवस्थाऽप्यदुष्टैव । प्रत्येकं च सामर्थेऽपि नापरेषां वैयर्थ्यम् , स्वहेतुबलेन तेषां तथोत्पन्नत्वात् । नापि तेषां पृथग्भावः संभवति, तथाविधकारणाभावात् । नापि पश्चात् , क्षणिकत्वात् । कलापोत्पादकाः पृथगिति । प्रत्येकं द्वितीयक्षणभाविकलापोत्पादनसमर्था इत्यर्थः । खोपादानग्रहणं प्रथमावस्थाभाविसहकारिकृतोपयोगनिषेधपरं द्रष्टव्यम् । नतु खोपादानमात्रभावि किंचित्कार्य संभवति, सामग्रीतः सर्वस्य संभवात् । यथोक्तम्-"न किंचिदेकमेकस्मात्सामग्र्याः सर्वसंभव” इति ॥ ४३५ ॥ ४३६ ॥
ततः प्रभृति ये जाता विशेषास्ते तु तत्कृताः।
तद्रूपप्रकृतित्वेन तेषां तदुपयोगिनाम् ।। ४३७ ।। ततः प्रभृति-द्वितीयक्षणोत्तरकालमारभ्येत्यर्थः । तत्कृता इति । सहकारिकृतविशेषकारणकृताः । कस्मात् ? तद्रूपप्रकृतित्वात्तेषाम् तद्रूपा-विशिष्टसहकारिकृतविशेषकारणजन्या, प्रकृतिः-स्वभावो येषां ते तथोक्ताः । तेषां तदुपयोगिनामिति । तद्रूपप्रकृतित्वादिति संबन्धनीयम् । तदुपयोगिनमित्यत्र चकारो लुप्तनिर्दिष्टस्तेनायमर्थों भवति । तत्र तृतीयावस्थाभाविनि कार्ये ये द्वितीयक्षणभाविनो विशेषा उपयुज्यन्ते कारणभावेन, तेषां च तदुपयोगिनां सहकारिकृतविशेषकारणअन्यकार्योत्पादनयोग्यप्रकृतित्वात् , तृतीयादिक्षणभाविनो विशेषास्तत्कृता भवन्तीति ॥४३७॥ अयमपि नियमः कथमेषां भवतीत्याह-नियतेत्यादि ।
नियताचिन्त्यशक्तीनि वस्तूनीह प्रतिक्षणम् । भवन्ति नानुयोज्यानि दहने दाहशक्तिवत् ॥ ४३८॥