________________
१५४
तत्त्वसङ्कहः।
समावस्थायाः सवसत्वेनानुपकार्योपकारकत्वात् । ततश्च प्रथमावस्थायां तेषां निर्वि. शिष्टत्वात्तेभ्यो विशिष्टक्षणान्तरोत्पादो न स्यात् । निर्विशेषेभ्यश्च तेभ्यः क्षणान्तरस्य विशिष्टस्योत्पत्तौ कार्यमपि किं नोत्पद्येत । न चापि पूर्वकात्कलापाद्विशिष्टात्ते समुत्पना इति युक्तं वक्तुम् , तत्कलापान्तर्गतानामप्यत एव परस्परतो विशेषाभावात् । तेषामप्यन्यतो विशेषोत्पत्तौ सत्यामनवस्था स्यात् । तदेवं विशेषाभावात्कथमविशिष्टाकारणकलापात्कार्यमुत्पद्येत । अविशिष्टाश्चोत्पत्तौ सर्व सर्वस्माद्भवेत् । ततश्च क्रमयोगपद्याभ्यामेवमर्थक्रियाविरोधेऽपि यथैते भवन्त्येवार्थक्रियाकारिणस्तथा नित्या अपि सन्तो भविष्यन्तीति व्यर्थस्तेषां क्षणिकताश्रयः । तेन सत्त्वादिति हेतुरनैकान्तिक इति भावः । न चापि सन्ततेरवस्थाविशेषप्राप्तायाः कार्योत्पत्तिर्भविष्यति न सर्वदेति वक्तुं युक्तम् । यथोक्तया नीत्या सहकारिकृतस्य विशेषस्याभावात्सर्वदैव सन्ततेरविशितृत्वात् । नचापि खोपादानकारणमात्रप्रतिबद्धो विशेषः सन्ततिरिति युक्तं वक्तुम् । दृष्टविरोधात् । तथाहि-सहकारिणामुपायापाययोः कार्यव्यक्तिविरामौ दृष्टौ । यदि च स्वोपादानकारणमात्रप्रतिबद्धो विशेषः स्यात् , तदा सहकारिनिरपेक्षस्यैव जनकत्वं भवेत् । अपिच यथोक्तया नीत्या सन्ततः सर्वदा निर्विशिष्टत्वात् । घटादीनां कपालादिविशेषोत्पत्त्यसंभवात् । सजातीयक्षणसन्तानोच्छेदलक्षणो विनाशो यदि निहे. तुकः स्यात्तदा निरपेक्षत्वात्प्रागेव भवेत् । अथादौ न भवेत्, पश्चादपि न भवेत् , प्राग्वद्विशेषाभावात् । किं च यदि भावानां विनाशं प्रति स्वहेतुव्यतिरेकेणान्यत्सन्तानान्तरं कारणं नेष्यते तदाऽनलादयः शीतादीनां कथं विरोधिनो भवेयुः, नाकिंचित्करो विरोधी युक्तोऽतिप्रसङ्गापत्तेः, एवं हि सर्वः सर्वस्य विरोधी प्रसज्येत । ततश्च विरोधद्वारेणानुपलब्धिप्रयोगः प्राणातिपातादिव्यवस्थानं चातिदुर्घटमिति भावः ॥ ४२८ ॥ ४२९ ॥ ४३०॥ ४३१ ॥ ४३२ ॥ ४३३ ।। ४३४ ॥ उच्यत इत्यादिना प्रतिविधत्ते ।
उच्यते प्रथमावस्था नैवान्योन्योपकारिणः । एकार्थक्रियया त्वेते भवन्ति सहकारिणः ॥ ४३५ ॥ अन्योन्यानुपकारेऽपि नाविशिष्टा इमे यतः।
खोपादानवलोद्भूताः कलापोत्पादकः पृथक् ॥ ४३६ ॥ समर्थादेव हि कार्योत्पत्तिः, नच सहकारिवैयर्यम् । तथाहि-द्विविधं सहकास्त्विं एकाक्रियाकारितया परत्परोपकारितया च । तत्र (?) व्यवहितकार्यापे.